SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ५७४ ] बृहद्वृत्ति - लघुन्याससंवलिते [ पा० २. सू ५७ ] आकृतिग्रहरणा जातिः, अत्रिलिङ्गा च यान्विता । आजन्मनाशमर्थानां सामान्यमपरे विदुः ।। १ ।। अत्र प्रथमजातिलक्षणानुसारेण कुमारीभार्यः, किशोरीभार्य इति भवति, द्वितीयजातिलक्षणानुसारेण कुमारभार्यः, किशोरभार्य इति भवति, न हि कुमारत्वादि उत्पत्तेः प्रभृत्याविनाशमनुवर्तते । स्वाङ्गादिति किम् ? पटुभार्यः । ङीरिति किम् ? सकेशभार्यः । श्रमानिनीति किम् ? दीर्घकेशमानिनी, कठमानिनी -- असमासनिर्देशः सुखार्थः ।। ५६ ।। 5 न्या० स०-- स्वाङान्ङी० । शूद्रेति शीयते वर्जयति षट् कर्माणीति शूद्रः 'शदेरूच्च' ३९४ ( उणादि) पूर्वत्र जातिलक्षणे उक्तऽपि प्रत्रैवंविधा जातिग्रह्यति वैचित्र्यार्थमाह- श्राकृतिग्रहणेति ततश्च प्राकृतिग्रहरणा जातिरिति प्रथमा जातिः । अनया 10 च कुमारीभार्यः किशोरीभार्य इति सिद्धम् । अत्रिलिङ्गा च यान्विता श्राजन्मनाशम नामिति द्वितीया, केचित्तु श्राजन्मनाशमर्थानामन्विता इति प्राकृतिग्रहरणा जातिरित्यस्य विशेषणं कुर्वन्ति तन्मताभिप्रायेण कुमारभार्यः किशोरभार्य इत्येव भवति । न हि कुमारत्वादि उत्पत्तेः प्रभृति प्राविनाशमऽनुवर्त्तते ।। ३. २. ५६ ।। पुंवत्कर्मधारये ॥ ३. २. ५७ ।। परतः स्त्र्यनूङ् कर्मधारये समासे स्त्र्येकार्थे उत्तरपदे परे पुंवद्भवति, प्रतिषेधनिवृत्त्यर्थं प्रारम्भः । नाप्रियादौ [ ३. २. ५३ ] इत्युक्तं तत्रापि भवति, कल्याणी चासौ प्रिया च कल्याणप्रिया, एवं कल्याणमनोज्ञा, 'तद्धिताककोपान्त्यपूरण्याख्या:' [ ३. २. ५४. ] इत्युक्तं तत्रापि भवति, - मद्रिका चासौ भार्या च मद्रकभार्या, लाक्षिकबृहतिका, पाचकवृन्दारिका, कारक - 20 वृन्दारिका, पञ्चमवृन्दारिका, षष्ठवृन्दारिका, दत्तवृन्दारिका, गुप्तवृन्दारिका, 'तद्धितः स्वरवृद्धिहेतुर रक्तविकारे' [३. २. ५५. ] इत्युक्तं तत्रापि भवति, माथुरी चासौ वृन्दारिका च माथुरवृन्दारिका, स्रौघ्नवृन्दारिका, 'स्वाङ्गान्ङीजतिश्चामानिनि' [ ३. २. ५६ ] इत्युक्तं तत्रापि भवति, -- चन्द्रमुखी चासौ वृन्दारिका च चन्द्रमुखवृन्दारिका, दीर्घकेशवृन्दारिका, कठवृन्दारिका, बह वृच - 25 वृन्दारिका, वतण्डस्यापत्यं वातण्ड्यः, स्त्री चेत् वतण्डी, सा चासौ वृन्दारिका च वातण्ड्यवृन्दारिका, गर्गस्यापत्यं गार्ग्यः स्त्री चेत् गार्गी, सा चासौ 15
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy