________________
५६२ ]
.
बृहद्वृत्ति-लघुन्याससंवलिते
पा० २. सू० ४०-४१.]
चैत्रपितृजनितस्यैव चैत्रभ्रातृत्वात्, तथापि पिता पिता भवन्न भ्रातरमपेक्षते । यद्येवं कथं मातापितरौ होतापोतारौ ? न ह्यत्र परस्परापेक्षस्तथाभावोऽपि तु पुत्रयजमानापेक्षः, नैवम्, अत्रापि मात्रादीनां परस्परसंबन्धात् । ते हि स्वकर्मणि प्रजने यागे च सहिता एव प्रवर्तन्ते, तत्कर्मनिमित्तश्चायं तेषां व्यपदेश इत्यदोषः । केचित्तु स्वसादुहितरावित्यत्रापीच्छन्ति ।। ३६ ।।
5
न्या० स०--आ द्वंद्व । विद्यायोनिसंबन्धश्चेहेति इहेति भणनात् स्वसृपत्योत्यत्र न प्रत्यासत्तिः । तेन ननान्दुः पतिरित्यादि सिद्धम् ॥ ३. २. ३६ ॥
पुत्रे ॥ ३. २. ४० ॥
पुत्रशब्दे उत्तरपदे द्वन्द्व समासे विद्यायोनिसंबन्धे निमित्ते सति प्रवर्तमानानामृकारान्तानामाकारोऽन्तादेशो भवति । मातापुत्रौ, पितापुत्रौ,10 होतापुत्रौ ।। ४० ॥
न्या० स०--पुत्रे। उत्तरपदस्य ऋदन्तत्वाभावात् पूर्वेणाप्राप्ते वचनम् । दुहिता पुत्राविति भग्नं । ततश्चानेन कारणेन भग्नं यदुत 'भ्रातृपुत्राः स्वसृदुहितृभिः' [३. १. १२१.] इत्येकशेषः प्राप्नोति ततश्च पुत्रावित्येव स्यात् ॥ ३. २. ४० ॥
वेदसहश तावायुदेवतानाम् ॥ ३. २. ४१ ॥
वेदे सहश्रुतानां वायुवजितदेवतानां द्वन्द्व पूर्वपदस्योत्तरपदे परे आकारान्तादेशो भवति । इन्द्रासोमौ, इन्द्रावरुणौ, इन्द्राबृहस्पती, शुनासीरी, अग्नामरुतौ, अग्नेन्द्रौ, अग्नाविष्ण , सोमारुद्रौ, सूर्याचन्द्रमसौ, मित्रावरुणौ । वेदेति किम् ? शिववैश्रवणौ, स्कन्दविशाखौ, ब्रह्मप्रजापती। सहेति किम् ? विष्ण शक्रौ । श्रुतेति किम् । चन्द्रसूयौं ? दिवाकरनिशाकरौ । वायुवर्जनं20 किम् ? अग्निवायू, वाय्वग्नी। देवतानामिति किम् ? यूपचषालौ, उलूखलमुशले ।। ४१ ॥
न्या० स०--वेदसह । शुनासोराविति वायुरवी इत्यर्थः । सूर्याचन्द्रमसाविति रविचन्द्रावित्यर्थः। स्कन्दो महासेनः, विशाखस्तू तस्यैव मृर्त्यन्तरविशेषः। चन्द्रसर्याविति एतौ हि वेदे शब्दान्तरेण विद्यते 'चन्द्रसूर्य' इत्यादिशब्देस्तु न श्रुतौ ।। ३. २. ४१ ।। 25