________________
५५६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० २५.]
15
अपराहणेतराम्, अपराहणतरे, तम-पूर्वाह णेतमाम्, पूर्वाहणतमे, अपराहणेतमाम्, अपराह णतमे, काल,-पूर्वाह णेकाले, पूर्वाह णकाले, अपराह णेकाले, अपराह णकाले । कालादिति किम् ? शुक्लतरे, शुक्लतमे, । अद्व्यञ्जनादित्येव ? रात्रितरायाम, निशातमायाम्, रात्रिकाले 'उत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्य ग्रहणम्, न तदन्तस्य, 'नवा खित्कृदन्ते'- 5 [३. २. ११७.] इत्यत्रान्तग्रहणात्, तेनात्र तनतरतमप्रत्ययानां स्वरूपेणैव ग्रहणं भवति ।। २४ ।।
न्या० स०-कालात्तन०। पूर्वाह्नतरां पूर्वाह्नतरे इति द्वयोर्मध्ये प्रकृष्टे विभज्ये वा पूर्वाह्न 'द्वयोविभज्ये च तरप्' [७. ३. ६.] यत्र सप्तम्या अलुप् तत्र प्रथमा सप्तम्यर्थस्य सप्तम्यैवोक्तत्वात् । यत्र तु सप्तम्या लुप् तत्र सप्तम्यर्थप्रतिपादनार्थं सप्तमी10 पुनर्दीयते । पूर्वाह्नतमामिति अथ क: प्रकर्षोऽत्र पूर्वाह्नस्य विवक्षावशादिति केचित्, तथाहि यत् सुप्रभाते कृतं यच्च प्रहरविरतौ तयोः सुप्रभाते कृतमतिशयेन पूर्वाह्न कृतमिति लोके व्यवह्रियते, न तु परमार्थतो नामार्थस्याऽत्र कश्चित् प्रकर्षयोगः। अन्य आह-नामार्थोऽधिकरणशक्तौ उपसर्जनभावान्न प्रकृष्यते, शक्तिरप्याधेयापेक्षत्वान्न स्वतः प्रकर्षमहतीत्याधेयापेक्षयाऽत्र नामार्थावच्छिन्नायाः शक्त: प्रकर्षो वर्णनीयः ।
पूर्वाह्न काल इति । सप्तम्यन्तयोविशेषणसमासः, यद्यपि पूर्वाह्नः कालं न व्यभिचरति तथापि बाहुलकात् समासो यथा पृथिवीद्रव्यमिति । अथवा पूर्वाले यः कालस्तस्मिन्निति वैयधिकरण्ये वा समासः, अत्र सत्रे कालग्रहणसामर्थ्याद वा, एवमपराहकाल इत्यादि । रात्रितरायामित्यादि अत्र रात्रेयद्यपि स्वतः प्रकर्षो नास्ति तथाऽपि गोतर इत्यादौ यथा जातेः स्वतः प्रकर्षासंभवे तत्सहचरदोहवाहाद्यपेक्षया प्रकर्षस्तथात्रापि रात्रिसहच-20 रान्धकारघोरत्वाद्यपेक्षयेति । अत्र सूत्रे यदा तनोतीति ताम्यतीति तरतीति क्रियते तदा अलुप् न भवति प्रत्ययाप्रत्यययोरिति न्यायात्। तेन पूर्वाह्नतनः पूर्वाह्नतमः पूर्वाह्नतर इत्याद्येव भवति ।। ३. २. २४ ।।
शयवासिवासेष्वकालात् ॥ ३. २. २५ ॥
अकालवाचिनोऽद्व्यञ्जनान्ताच्छब्दात्परस्याः सप्तम्याः शयादिषुत्तरपदेषु 25 लुप् न भवति वा। बिलेशयः, बिलशयः, खेशयः, खशयः, वनेवासी, वनवासी, अन्तेवासी, अन्तवासी, ग्रामेवासः, ग्रामवासः । बहुलाधिकारान्मनसिशयः, कुशेशयमिति नित्यं लुब्भावः । हृच्छयः, चित्तशयः इत्यत्र तु नित्यं लुप् । अकालादिति किम् ? पूर्वाह णशयः, अपराह णशयः । अव्यञ्जनादित्येव ? भूमिशयः, गुहाशयः ।। २५ ।।
___30