________________
५५४ ]
बृहद्वृत्ति-लन्याससंवलिते
[पा० २. सू० २०-२२.]
पादादिभ्यः' [ ७. २. १५२. ] इत्यकल् । नह्यतेऽनया 'नीदाव्' [ ५. २. ८८.] इति । त्रट् ॥ ३. २. १६ ॥
तत्पुरुषे कृति ॥ ३. २. २० ॥
अद्वयञ्जनात्परस्याः सप्तम्याः कृदन्ते उत्तरपदे परे तत्पुरुष समासे लुब् न भवति, नाम्नीति निवृत्तम् । स्तम्बे रमते स्तम्बेरमः, एवं कर्णेजपः, 5 पात्रेसमितः, प्रवाहेमूत्रितम्, उदकेविशीर्णम्, अवतप्तेनकुलस्थितम्, व्यञ्जनभस्मनिहुतम्, भस्मनिमीढम् । बहुलाधिकारात्क्वचिदन्यतोऽपि गोषुचर । क्वचिन्निषेधो न भवति-मद्रचरः, ग्रामकारकः । क्वचिद्विकल्पः-खचरः, खेचरः, वनेचरः, वनचरः पङ्क रुहम्, पङ्करुहम्, सरसिरुहम्, सरोरुहम्, दिविषत्, द्युसत् । क्वचिदन्यदेव-हृदयं स्पृशति, हृदिस्पृक्,-द्वितीयार्थेऽत्र 10 सप्तमी, एवं दिविस्पृक् । तत्पुरुष इति किम् ? धन्वनि कारका यस्य स धन्वकारकः, एवं कल्याणाभिनिवेशः, धर्मरुचिः। कृतीति किम् ? अक्षशौण्डः, अक्षकितवः अव्यञ्जनादित्येव ? .. कुरुषु चरति कुरुचरः, एवं रात्रिचरः, नदीचरः, कथं परमे कारके उत्तमे कारके इति विग्रहे परमकारके उत्तमकारके तिष्ठतीत्यत्र सप्तम्या लुब् भवति ? उच्यते-15 अन्तरङ्गत्वात्प्रथमान्तयोरेव परमोत्तमशब्दयोः कारकशब्देन समास इति ताभ्यां सप्तम्येव नास्ति, यद्वा कृतीति कृनिमित्ताया एव सप्तम्या लुप्रतिषेधः, इह तु तिष्ठत्यादिक्रियापेक्षेति लुप् भवत्येव ।। २० ।
मध्यान्ताद्गुरी ॥३. २. २१ ॥
मध्यान्तशब्दाभ्यां परस्याः सप्तम्या गुरुशब्दे उत्तरपदे परे लुप् न20 भवति । मध्येगुरुः, अन्तगुरुः मध्यगुरुः, अन्तगुरुरित्यप्यन्ये ।। २१ ॥
न्या० स०–मध्यान्ता। अत्र समासविशेषस्यानुपादानात् यथा तत्पुरुषे लुक् न भवति तथा बहुव्रीहावपि ।। ३. २. २१ ॥
अमूर्धमस्तकात्स्वानादकामे ॥ ३. २. २२ ॥ मूर्धमस्तकशब्दवर्जितात्स्वाङ्गवाचिनोऽद्वयञ्जनान्ताच्छब्दात्परस्याः 25