SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५४४ ] बृह इवृत्ति-लघुन्याससंवलिते [पा० २. सू० १.] द्विगौ-द्वे शते समाहृते द्विशती, त्रिशती । द्वन्द्व-एकश्च दश चैकादश, एवं द्वादश, त्रयोदश, सप्ततिशतम्, अशीतिशितम्, नवतिशतम् ।। १६३ ।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन बृहद्वृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः ॥ असंरब्धा अपि चिरं दुःसहा वैरिभूभृताम् । चण्डाश्चामुण्डराजस्य प्रतापशिखिन: कणाः ।। १ ।। न्या० स०--संख्या स० । द्वित्राश्च चत्वारश्च चतुर्बित्राः, द्विवेति समुदाय इति न संख्याकार्य, एवं चतुष्पञ्चषाः द्वौ च एकविंशतिश्चेति कृते नियमः। यदा तु एकश्च विंशतिश्च एकविंशती अप्रसिद्धा संख्या तदाऽनया सह समासे पूर्वापरभावे यथाप्राप्तं लघ्वक्षरादिसूत्रेण । द्विदशा इति ननु द्विदशा इत्यादौ 'सुज्वार्थे' [ ३. १. १६.] इत्यनेन 0 सुजर्थसमासः, ततः 'प्रथमोक्त प्राक्' [ ३. १. १४८.] इत्यनेनाऽपि सिद्ध्यति किमेषामुपादानम् ? सत्यं, यदा दशन्शब्दः सुजर्थः समस्यते तदाप्यनेनानुपूर्व्याः संख्यायाः पूर्वनिपातो भवतीति फलं कोऽर्थः ? यदा द्विर्दशेति वाक्यं, तदा 'प्रथमोक्तम' [ ३. १. १४८. ] इत्यनेनैव सिद्धम्, यदा तु दशकृत्वो द्वौ तदा फलम् । एवं त्रिदशा इत्यत्रापि दशकृत्वस्त्रय इति वाक्ये फलम् ॥ ३. १. १६३. ।। इत्याचार्यश्रीहेमचन्द्र० तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः । 15 0 प्रथ द्वितीय: पाद: परस्पराग्योन्येतरेतरस्याम् स्यादेर्वासि ॥ ३. २. १ ॥ परस्परादीनामपुंसि स्त्रियां नपुंसके च प्रयुज्यमानानां संबन्धिनः स्यादेः स्थाने आमादेशो वा भवति । इमे सख्यौ परस्परां भोजयतः, परस्परं भोज-20 यतः, आभिः सखीभिः परस्परां भोज्यते, परस्परेण भोज्यते, इमाः सख्यः परस्परां प्रयच्छन्ति, परस्परस्मै प्रयच्छन्ति, इमाः परस्परां परस्परस्माद्वा बिभ्यति, इमाः परस्परां परस्परस्य वा स्मरन्ति, इमाः परस्परां परस्परस्मिन्वा स्निह्यन्ति, इमे
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy