________________
[पा० १. सू० १५२-१५३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५३७
भिक्षितभिक्षः, क्तान्तस्य विशेषणत्वात्पूर्वेण सिद्ध्यति, विशेष्यार्थं तु वचनम्कटे कृतमनेन कृतकट:, स्पर्धे परत्वार्थं च-कृतभव्यकटः, कृतविश्व: । केचित्तु सर्वादिभ्यः क्तान्तस्य पूर्वं निपातं नेच्छन्ति कृतचत्वारः । बहुवचनं व्याप्त्यर्थम्-तेन कृतप्रिय इत्यत्र परेणापि स्पर्धे क्तान्तस्यैव पूर्वनिपातः ।। १५१ ।।
जातिकालसुखादेनवा ॥ ३. १. १५२ ॥
जातिवाचिभ्यः कालवाचिभ्यः सुखादिभ्यश्च शब्दरूपेभ्यो बहुव्रीहौ समासे क्तान्तं वा पूर्वं निपतति । जाति-शाङ्गरजग्धी, जग्धशाङ्गरा, पलाण्डुभक्षिती, भक्षितपलाण्डुः, पाणिगृहीती, गृहीतपाणिः, कटकृतः, कृतकटः । व्यक्तिविवक्षायां तु 'क्ताः' [३. १. १५१.] इत्यनेन कृतकट:10 इत्याद्य व भवति । अन्ये तु प्राकृतिव्यङ्गयजातिवाचिन एव क्तान्तस्य पूर्वनिपातमिछन्ति-तेनेह न भवति-पाहूतब्राह्मणः, सेवितक्षत्रियः, तर्पितदाक्षिः, प्रीणितकठः, काल-मासयाता, यातमासा, संवत्सरयाता, यातसंवत्सरा, मासगतः, गतमासः । सुखादयो दश क्यविधौ निर्दिष्टाः-सुखयाता, यातसुखा, हीनदुःखा, दुःखहीना, तृप्तोत्पन्ना, उत्पन्नतृप्ता, सुख, दुःख, तृप्त,15 कृच्छ, अस्र, अलीक, करुण, कृपण, सोढ, प्रतीप इति सुखादिः ।। १५२ ।।
न्या० स०--जातिकाल। शाङ्गरजग्घीति शाङ्गरस्य वृक्षस्य विकारः फलं 'दोरप्राणिनः' [ ६. २. ४६. ] इति मयट्, 'फले लुक्' [ ६. २. ५८. ] शाङ्गरं जग्धमनया 'अनाच्छाद' [ २. ४. ४७. ] इति ङीः । पलाण्डु भक्षिती इति पलाण्डु भक्षितमनया । अन्ये त्वाकृतीति प्राकृतिः संस्थानं तया व्यङ ग्या या जातिर्गोत्वादिस्तद्वाचिन इत्यर्थः । 20 आहूत ब्राह्मण इति ब्राह्मणादिजातिरुपदेशादिगम्या न तु संस्थानव्यङ्ग्या ।। ३. १. १५२ ॥
आहिताग्न्यादिषु ॥ ३. १. १५३ ॥
आहिताग्न्यादिषु बहुव्रीहिसमासेषु क्तान्तं वा पूर्व निपतति । आहितोऽग्निर्येन स आहिताग्निः, अग्न्याहितः, जातपुत्रः, पुत्रजातः, जातदन्तः,25 दन्तजातः, जातश्मश्रुः, श्मश्रुजातः, पीततैलः, तैलपीतः, पीतघृतः, घृतपीतः,