________________
[पा० १. सू० २७.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ २३
न्या० स०-सविशेषण-पाख्यायते स्म क्रियाप्रधानत्वेन साध्यार्थाभिधायितया वा इत्याख्यातम्, तच्च त्याद्यन्तमिति । क्रियोपलक्षणं चैतत्, तेन 'देवदत्तेन शयितव्यम्' इत्याद्यपि वाक्यं भवति । साक्षादित्यादि-यत् क्रियायाः साधनस्य वा तदतदात्मनोऽतद्र पादव्यवधानेन व्यवच्छेदकं क्वचित् तत् साक्षाद विशेषणम्, यत् तद्विशेषणस्य विशेषणं तत् पारम्पर्येण । 'धर्म' इत्यादौ यत्र क्रियापदं कर्तरि तत्र कर्ता क्रियापदस्य समानाधिकरणं 5 विशेषणमन्यानि व्यधिकरणानि, कर्मणि तु क्रियापदे कर्म समानाधिकरणम् । साधु वो रक्षत्वित्यादौ साध्विति रक्षणादिक्रियायाः समानाधिकरणम्, रक्षत्वित्यादिक्रियापदस्य तु व्यधिकरणमिति । शालीनां ते इति-अत्रौदनस्य साक्षाद विशेषणस्य विशेषणत्वाच्छालीनामिति पारम्पर्येण विशेषणम् । शीलं ते स्वमिति-अत्रास्तीत्यादि क्रियापदं न प्रयुज्यते परं तस्याप्रयुज्यमानस्यापि स्वमिति समानाधिकरणम् । ननु शब्द-10 प्रयोगोऽर्थप्रतिपत्त्युपायः, तस्य चाप्रयुज्यमानस्यापि विशेषण-विशेष्यभावेऽतिप्रसङ्गः, अप्रयुज्यमानत्वाविशेषात् सर्वं सर्वस्य विशेषणं विशेष्यं च स्यात् । किञ्च, यद्यप्रयुज्यमानमपि शब्दरूपं विशेष्यं विशेषणं वा गमयेत् तदाऽनर्थकः सर्वत्र तत्प्रयोग इत्याह-अर्थात इत्यादि। लोकादेवेति-लोको हि साकाङ क्षत्वे सति क्रियाभेदेऽप्येकवाक्यत्वं प्रतिपद्यत इति साकाङ क्षत्वेऽपि क्रियाभेदे वाक्यभेदार्थं वचनमिति भावः । कुरु कुरु न इति-अत्र 15 युगपद्वाक्यद्वयप्रयोग इति एकवाक्यत्वाभावान्नसादेशस्य न प्राप्तिरिति पराभिप्रायः ।। २६ ।।
अधातुविभक्तिवाक्यमर्थवन्नाम ॥ १. १. २७ ॥
अर्थोऽभिधेयः-स्वार्थः, द्रव्यम्, लिङ्गम्, संख्या, शक्तिरिति, द्योत्यश्च समुच्चयादिः । तद्वच्छब्दरूपं धातुविभक्त्यन्त वाक्यजितं नामसंज्ञं भवति 120 व क्षः, प्लक्षः, शुक्लः, कृष्णः, डित्थः, डवित्थः, स्वः, प्रातः, धवश्च खदिरश्च । धातु-विभक्तिवर्जनं किम् ? अहन्, वृक्षान्, अयजन्; अत्र नामत्वाभावे "नाम्नो नोऽनह्नः" [२. १. ६१.] इति नलोपो न भवति । विभक्त्यन्तवर्जनाच्चाऽऽबादिप्रत्ययान्तानां नामसंज्ञा भवत्येव । प्राप्-अजा, बहुराजा। डी-गौरी, कुमारी, डायनि-गाायणी, गौकक्ष्यायणी। ति-25 युवतिः । ऊ-ब्रह्मबन्धूः, करभोरू: । कृत्-कारकः, कर्ता, भिनत्तीति भिद्; एवं छित् । तद्धित:-औपगवः, आक्षिकः । वाक्यवर्जनं किम् ? साधुर्धर्मं ब्रूते । अर्थवत्समुदायस्य वाक्यस्य नामसंज्ञाप्रतिषेधात् समासादेर्भवत्येव-चित्रगुः, • राजपुरुषः, ईषदपरिसमाप्तो गुडो बहुगुडो द्राक्षा । अर्थवदिति किम् ? वनम्, धनम् ; नान्तस्यावधेर्मा भूत्, नामत्वे हि स्याद्युत्पत्तौ पदत्वान्नलोपः स्यात् ।30