SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ११८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५०६ वाक्येनाभिधानं सा सहोक्तिरिति । नन्वस्तु यथाकथंचित् सहोक्तिः समाहारे तु न संभवति तस्यैकत्वात् सहोक्त श्च भेदनिबन्धत्वादिति ? उच्यते, समाहारो हि संघातः । स च संहन्यमानानां धर्मः । संहन्यमानाश्च सहोच्यमाना एव, न पृथगुच्यमाना इति तत्रापि सहोक्तिसंभव इत्यदोषः । एकविंशतिरित्यादि संख्याद्वद्वो यद्यवयंवप्रधानस्तदैकविंशतिरिति द्विवचनं प्राप्नोति, द्वाविंशतिरिति बहुवचनम् । अथ समुदायप्रधानस्तदा 5 नपुंसकत्वं स्यादित्याऽऽशङ्का। एकविंशती इति अत्राऽपि समाहारो यदा क्रियते तदा एकत्वं स्त्रीत्वं च, यथा एकविंशतिमनयोर्देहि ।। ३. १. ११७ ।। समानामर्थेनैका शेषः ॥ ३. १. ११८ ॥ अर्थन समानां समानार्थानां शब्दानां सहोक्तौ गम्यमानायाम् एकः शिष्यते अर्थादन्ये निवर्तन्ते, तत्र विशेषानुपादानात्पर्यायेण शेषो भवति,10 बहुवचनमतन्त्रम्-तेन द्वयोरप्येकः शिष्यते । वक्रश्च कुटिलश्च वक्रौ कुटिलौ वा, वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डाविति वा, एवं लोहिताक्षौ रक्ताक्षाविति वा, सितश्च शुक्लश्च श्वतश्च सिताः शुक्लाः श्वेता वा, अर्थेन समानामिति किम् ? प्लक्षन्यग्रोधौ, धवखदिरपलाशाः, सहोक्तावित्येव ? वक्रश्च कुटिलश्च। द्वद्वापवादो योगः ।। ११८ ।। 15 न्या० स०--समाना०। समानामिति निर्धारणषष्ठ्यन्तं समुदायिसमुदायसंबन्धषष्ठ्यन्तं वा न तु स्थानषष्ठयन्तं । तत्र हि समानां स्थाने एकः शिष्यत इत्येक आदेशो भवतीति । अविशेषेऽपि यस्तदभिधाने समर्थः स एव तेषामन्यतमः स्यात् । ततश्च बिसे बिसानीति कृतसकारस्य षत्वं स्यादिति । निर्धारणषष्ठयां तु समानामित्येकसंख्याक: समानार्थो विशेष्यते । समुदायिसमुदायसंबन्धषष्ठयां च समानार्थारब्धे समुदाये समानार्थ20 एवावयवो विशिष्यत इत्यदोषः । शिषेः कर्मणि घत्रि कर्तर्यचि वा शेषः । एकः शिष्यत इति-ननु जातिः शब्देनाभिधीयते, सा चैका ततो बहूनां प्रयोगाप्राप्तौ नार्थ एकशेषेण ? न, प्रत्यर्थं शब्दनिवेशाद् द्रव्यं द्रव्यं प्रति शब्दप्रयोगादेकेन शब्देनानेकस्य द्रव्यस्याभिधानं नोपपद्यत इत्यनेकस्यार्थस्य प्रतिपादनेऽनेकशब्दानां वाचकानां प्रयोग: प्राप्नोतीति द्रव्यपदार्थदर्शने एकशेषारम्भः । अथ शेष इत्येकवचनादेक एव शेष इष्यते किमेकग्रहणेन ? 25 उच्यते, शेषस्य विधीयमानत्वेन प्राधान्यात् प्रधाने च संख्याया अविवक्षणात् द्वयोस्त्रयाणां वा शेषप्रसक्त स्तत्रापि शेषप्रक्रियागौरवापत्त्या एकस्यैव शेषस्य विधीयमानत्वेन प्राधान्यात् प्रधाने च संख्याया अपि संपत्त्यर्थमेकग्रहणं सुखार्थं वा । ननु समग्रमेवेदं सूत्रं नारम्भणीयं समानार्थैः शब्दैरनेकस्यार्थस्याभिधित्सायां व्यक्तावपि पदार्थे एकस्यैव तत्प्रत्यायने शक्तत्वादन्ये निवर्तन्ते उक्तार्थानामप्रयोग इति ।30 आरब्धेऽप्येकशेषे निवर्तमानार्थप्रत्यायने स्वाभाविकी शक्तिर्यावन्नानुसृता तावत् कथमसौ
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy