SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ [ पा० १. सू० ११५. ] श्री सिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६६ वाचिनाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । भोज्यं च तदुष्णं च भोज्योष्णम्, एवं भोज्यलवरणम्, पानीयशीतम्, पानीयोष्णम्, हरणीयपूर्णो घटः, पेयाम्लम्, भृत्यभरणीयः - एकोऽत्र कृत्योऽर्हार्थेऽपरश्च शक्यार्थे, स्तुत्यपटुः पुरुषः । तुल्याख्य, - तुल्यश्व ेतः, तुल्यसन्, तुल्यमहान्, सदृशश्व ेतः, सदृशमहान् । जात्येति किम् ? भोज्य : 5 ओदनः, तुल्यो वैश्यः । सदृशी कन्या वोढव्या । कथं शीतपानीयम् । पानीयशब्दोऽय मौरणादिको जलवाची तस्यायं विशेषरणसमासः । समासस्याजातेः पूर्वत्वस्य च प्रतिषेधार्थं वचनम् ।। ११४ ।। जात्या न्या० स० -- कृत्यतुल्या० । आख्यायन्ते ग्राभिरित्याख्याः नामधेयानि । तुल्यस्याख्यास्तुल्याख्याः, अथवा तुल्यमाचक्षते तुल्याख्या: 'दश्र्वाङ' [ ५. १.७८ ] इति ङ: 110 प्रख्यग्रहणाद्ये पदान्तरनिरपेक्षास्तुल्यमर्थमाचक्षते इह ते गृह्यन्ते समानसदृशतुल्यप्रभृतयो न तु ये पदान्तरसान्निध्येन यथाऽग्निर्माणवक इति । अत्राऽपि तुल्यता प्रतीयते । परार्थे प्रयुज्यमानाः शब्दाः सादृश्यं गमयन्तीति । न त्वत्र तुल्यता पदार्थ इति । भोज्यं च तदुष्णं चेति । भोजनाहं भोक्तु वा शक्यमित्यर्थे ध्यरिण । लवरणमिति नन्द्याद्यनो गरणपाठात् णत्वं च । भोज्य ओदन इति श्रोदनत्वलक्षरणाया जातेरोदनशब्दो वाचक : 115 पीयते तदिति 'गयहृदय' ३७० ( उगादि ) इति पानीयम् ।। ३. १. ११४ ।। कुमार श्रमणादिना । ३. १. ११५ ।। कुमार इत्येतन्नामैकार्थं श्रमणादिना नाम्ना सह समस्यते स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कुमारी चासौ श्रमणा च कुमारश्रमणा, एवं कुमारप्रव्रजिता, कुमारश्चासावध्यायकश्च कुमाराध्यायकः, 20 कुमारी चासावध्यायिका च कुमाराध्यायिका, एवं कुमाराभिरूपकः, कुमाराभिरूपिका, श्रमणा, प्रव्रजिता, कुलटा, गर्भिणी, तापसी, बन्धकी, दासीएते सप्त स्त्रीलिङ्गा एव । अध्यायक, अभिरूपक, पटु, मृदु, पण्डित, कुशल, चपल, निपुण, - येऽत्र स्त्रीलिङ्गास्तैः सह स्त्रीलिङ्ग एव कुमारशब्दः समस्यते शेषैस्तूभयलिङ्गः । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति हि न्याय : 25 श्रमणादीनां स्त्रीलिङ्गानां पाठात् । पुंलिङ्गः पूर्वनिपाते कामचारः - कुमारश्रमणः, तापसकुमारः, कुमारशब्दस्य पूर्वनिपातनियमार्थं वचनम् । इह केचित्
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy