________________
[पा० १. सू. १०५-१०६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ४६३
क्तं नादिभिन्नैः ॥ ३. १. १०५॥
नत्रादयो नप्रकाराः तैरेव भिन्न मिभिः सह क्तान्तं नामैकार्थ सामर्थ्यादनञ् समस्यते, स च समासस्तत्पुरुषसंज्ञः कर्मधारयसंज्ञश्च भवति । कृतं च तदकृतं च कृताकृतम्, एवं भुक्ताभुक्तम्, अशितानशितम् । इटः क्तावयवत्वाद्विकारस्य त्वेकदेशविकृतानन्यत्वान्न भेदकत्वम्, तेन 5 क्लिष्टाक्लिशितं,पूतापवितं, शाताशितं, छाताच्छितम्, आदिग्रहणात्कृतापकृतम्, भुक्तविभुक्तम्, पीतावपीतम् । क्तमिति किम् ? कर्तव्यमकर्तव्यं च । नत्रादिभिन्न रिति किम् ? कृतं प्रकृतम् । कृताकृतादिषु हि ईषदसमाप्तिद्योतकस्य नत्रः प्रयोगात् तदादयोऽपीषदसमाप्तिद्योतिन एवापादयो गृह्यन्ते । नादिभिरेव भिन्न रित्यवधारणं किम् ? कृतं चाविहितं चेति प्रकृतिभेदे,10 कृतं चाकर्तव्यं चेति प्रत्ययभेदे, गतश्च प्राप्तोऽगतश्चाज्ञात इत्यर्थभेदे, सिद्धं चाभुक्त चेति प्रकृत्यर्थयोर्भेदे च माभूत् । अवयवधर्मेण समुदायव्यपदेशात् कृताकृतादिष्वैकार्थ्यम् । 'विशेषणं विशेष्येण'-[३. १. ६६.] इत्येव समासः सिद्धः किंतु क्रियाशब्दत्वादनियमेन पूर्वापरनिपाते प्राप्ते पूर्वनिपातनियमार्थं वचनम्,-तेनाकृतकृतम् अनशिताशातमित्यादि न भवति ।। १०५ ॥ 15
न्या० स०--क्तं नमा०। न हि नत्रादयः पठ्यन्ते इत्यादिशब्दः प्रकारवाचीत्याह-नजादयो नप्रकारा इति । विसमाप्तिवचनोऽत्र नञ् । तेन विसमाप्तिद्योतिनो नन्प्रकाराः। विसमाप्तिश्च ईषन्निष्पत्तिरीषदपरिसमाप्तिर्वा नत्रादिभिन्नैरित्यत्र विनाऽप्येवकारेण तदर्थावगतिरस्ति सावधारणाधिक्ये भिन्नशब्दस्य वर्तमानत्वात् । यथा देवदत्तो यज्ञदत्तात् स्वाध्यायेन भिन्न इति, अत्र स्वाध्यायेनैव भिन्नो विशिष्टोऽधिक इति सर्वमन्यदाढ्य-20 त्वादि तुल्यमिति प्रतीयते। तैरेवेति न प्रकृत्या प्रत्ययेन शब्दान्तरेणार्थेन चेत्यर्थः । कर्तव्यमकर्त्तव्यं अकर्त्तव्यं कर्त्तव्यं चेति, उभयत्राऽपि विशेषसमासो भवत्येव । नत्रादिभिन्नैरिति किमिति । अन्यथा भिन्नैरित्येवोच्येत । कृताकृतादिष्विति ननु नत्रादेरपठितत्वान्नमोऽव्ययत्वात्तदादिग्रहणे प्रशब्दस्याव्ययस्य कुतो न ग्रहणं येनापादय एव दर्श्यन्ते ? इत्याशङ्का-अवयवधर्मेणेति अयमर्थः एकमनेकावयवं भवतीत्येकस्यावयवस्य कृतत्वादव-25 यवावयविनोः कथं चितभेदात्तदेकं कृतमुच्यते ? अवयवान्तरस्य त्वकृतत्वादकृतमित्येकस्य कृतत्वाकृतत्वयोः संभवादैकार्थ्यात् कृताकृतव्यपदेशो युज्यत इत्यर्थः ।। ३. १. १०५ ।।
सेड्नानिटा ॥ ३. १. १०६ ॥ सेट् क्तान्तं नाम नत्रादिभिन्न नानिटा नाम्ना न समस्यते, पूर्वस्यापवादः ।