________________
४६२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
पा० १. सू० ५६-५७.]
इत्याद्यपि भवति । बहुवचनमाकृतिगणार्थम् । इदमपि षष्ठीसमास- ' बाधनार्थम् ।। ५५ ।।
न्या० स०-जरत्यादि। अर्द्धजरतीयमित्यत्र 'काकतालोयादयः । अवैशसम् इति ‘शसू हिंसायाम्' विशसनं 'क्रुत्संपदादिभ्यः' [५. ३. ११४.] विशसैव प्रज्ञाद्य ण् अझै वैशसस्यार्द्ध मरणमित्यर्थः ।। ३. १. ५५ ।।
दिवत्रिचतुष्पूरणाग्रादयः ॥ ३. १. ५६ ॥
द्वित्रिचतुर् इत्येते पूरणप्रत्ययान्ता अग्र इत्यादयश्च शब्दा अंशवाचिनोंऽशिनाऽभिन्न न वा समस्यन्ते, तत्पुरुषश्च समासो भवति। द्वितीयं भिक्षाया द्वितीयभिक्षा, एवं तृतीयभिक्षा, चतुर्थभिक्षा, तुर्यभिक्षा तुरीयभिक्षा, अग्रं हस्तस्य अग्रहस्तः, एवं तलपादः, ऊर्ध्वकाय इत्यादि, पक्षे भिक्षाद्वितीयम्,10 भिक्षातृतीयम्, भिक्षाचतुर्थम्, भिक्षातुर्यम्, भिक्षातुरीयम्, हस्ताग्रम्, पादतलम्, कायोर्ध्वमित्यादि । नित्याधिकाराभावादेव पक्षे वाक्यस्य सिद्धत्वाद्वानुवृत्तिः पक्षे षष्ठीसमासार्थम्-तेन पूरणेन निषिद्धोऽपि षष्ठीसमासो भवति । व्यादिग्रहणं किम् ? पञ्चमं भिक्षायाः। पूरणेति किम् ? द्वौ भिक्षायाः । अशिनेत्येव ? भिक्षाया द्वितीयं भिक्षुकस्य, भिक्षुकेण समासो न भवति ।15 अभिन्न नेत्येव ? द्वितीयं भिक्षाणाम् । अग्रादिराकृतिगणः ।। ५६ ।।
न्या० स०--द्वित्रिचतुः। द्विश्च त्रिश्च चत्वारश्च द्वित्रिचतुस्तच्च सूत्रत्वात् पूरणशब्दस्य विशेषणस्यापि न पूर्वनिपातः । पञ्चमं भिक्षाया इति । षष्ठीसमासोऽपि वा ग्रहणेन यस्यैवायमंशिसमासस्तस्यैव प्राप्नोतीत्यत्र न भवति। द्वितीयं भिक्षाणामिति अत्र बहुत्वाद् भिक्षा भिन्ना ।। ३. १. ५६ ।।
20
कालो दिवगौ च मेयेः ॥ ३. १. ५७ ॥
अंशांशिनिवृत्तौ तत्संबद्धं वेति निवृत्तम् । कालवाचि नामैकवचनान्तं द्विगौ च विषये वर्तमानं मेयवाचिना नाम्ना समस्यते, तत्पुरुषश्च समासो भवति । मासो जातस्य मासजातः, मासजातौ, मासजाताः, मासजाता स्त्री, एवं संवत्सरजातः मासमृतः, संवत्सरमृतः द्विगौ-एको मासो जातस्य25 एकमासजातः, द्वे अहनी सुप्तस्य द्वयह्नसुप्तः, त्र्यह्नाध्यापितः । कथं