SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ४५२ ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ४०.] किमर्थमत्ययग्रहणम् ? उच्यते, अर्थाभाव इति धम्मिणोऽभवनमात्रमुच्यते, तथाहि निर्मक्षिकं निर्मशकं वर्तते इति तत्र मक्षिकादयो भूत्वा माभूवन्नभूत्वा वा सर्वथा ते तत्र न सन्तोत्येतावन्मात्रमेव प्रतीयते, न तु प्राक् पश्चाद् वेति विशेषः, अतोऽत्ययो नार्थाभाव इति । असंप्रतीति अत्र न संप्रत्यसंप्रतीति बाहुलकादसमर्थसमासोऽयं यथा असूर्यपश्याः, संप्रतीति हि इदानीमित्यर्थः । तैसृकमिति त्रयो मुख्या आसां 'सोऽस्यमुख्यः' [७. १. १६०.] इति कः, पृषोदरादित्वात्तिस्रादेशः, तिसृकासु भवोऽरण । अनुरथं यातीति ननु यथा नित्यसमासत्वात् पश्चाद्रूपेणार्थान्तरेणान्वित्यव्ययं समस्यते तथा पश्चाच्छब्दोऽपि अव्ययत्वादप्यर्थान्तरेण समस्यतां नित्यसमासत्वात् प्रयोगसमवायि वाक्यं नाप्नोति ? उच्यते, 'सर्वपश्चादादयः' [३. १.८०.] इति वचनात् पश्चाच्छब्दस्य अव्ययीभावसमासं प्रत्यव्ययत्वं नाङ्गीकार्यम्,10 अव्ययत्वे हि अव्ययीभावः स्यात् तत्र चान्य इत्यधिकारात् समासान्तर-प्राप्तावन्यत्वाभावात् तत्पुरुषो न स्यात् । अनुपादातमिति अत्र पदातीनां समूहः पादाभ्यामतत्यचि वा पादातं पादातः । लोके प्रकाशते इत्यर्थ इति अत्रेति तत् अहोऽव्ययानि शब्दं प्रद्योतयन्ति, अव्ययानामन्यत्रा:सत्व-वृत्तित्वेऽपि वृत्तिविषये निष्कौशाम्बिरतिखट्वः प्रकटो विकट इत्यादिवत्। 5 सत्त्ववृत्तिदर्शनात् । युगपद्धेहोति शब्दशक्तिस्वाभाव्याच्चान्यपदार्थप्रधानोऽयम् । सकिखीति लोमशिका जोवविशेष: किखिः, यस्य लोके लुकटीति प्रसिद्धिः, यमगोत्रविशेषश्च । संपत्सिद्धिरिति सिद्धिरात्मभावनिष्पत्तिः समृद्धिस्त्वन्यभावनिष्पत्तिरिति सिद्धिः समृद्धेरन्या । ब्रह्मणः संपत् सब्रह्म। पिण्डो भक्तमिति पिण्डो भक्तमिष्यतेऽन्विष्यते कल्प्याकल्प्यविभागेन विचार्यतेऽस्मिन्निति 'इषोऽनिच्छायाम्' [ ५. ३. ११२. ] इति20 व्युत्पत्तेः । सषट्जोवनिकायमधीत इत्यत्र जीवानां निकायाः षट् जीवनिकाया यत्र पठितव्ये, अथवा षण्णां जोवानां निकायस्ततः षट्जीवनिकायेनान्तः षड्जीवनिकायं ग्रन्थमन्तं कृत्वा न तु सकलमित्यर्थः। अनन्तर्भाव इति अत्र श्रुतस्कन्धादिरन्यपदार्थः, स्वभावात्तत्प्रधानोऽयं समासः ।। ३. १. ३६ ।। योग्यतावीप्सार्थानतिवृत्तिसादृश्ये ॥ ३. १. ४० ॥ 25 एष्वर्थेष्वव्ययं नाम नाम्नैकाक्षं पूर्वपदार्थे समस्यतेऽव्ययीभावश्च समासः । योग्यतायाम्-अनुरूपं चेष्टते-रूपस्य योग्यां चेष्टां कुरुते । वीप्सायाम्-प्रत्यर्थं शब्दा अभिनिविशन्ते-अर्थमर्थं प्रतीत्यर्थः, एवं प्रतिपर्यायम्, वीप्सायां द्वितीयाया विधानात् वाक्यमपि भवति--अर्थमर्थं प्रतीति । अर्थानतिवृत्तिः पदार्थानतिक्रमः-यथाशक्ति पठ-शक्त रनतिक्रमणेत्यर्थः, एवं30
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy