________________
[ पा० १. सू० ३०. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४४३
व्याकरणस्य एकमुनि व्याकरणस्य एवं द्विमुनि व्याकरणस्य, त्रिमुनि व्याकरणस्य । यदा तु विद्यया तद्वतामभेदविवक्षा तदैकमुनि व्याकरणं, द्विमुनि व्याकरणमित्यादि सामानाधिकरण्यं भवति, सप्त काशयो वंश्या राज्यस्य सप्तकाशि राज्यस्य, एवं त्रिकोशलं राज्यस्य, एकविंशतिभारद्वाजं कोशलस्य । पूर्वार्थ इति किम् ? द्वौ मुनी वंश्यावस्य द्विमुनि, द्विमुनिकं 5 व्याकरणम्, द्विमुनिरागतः । अन्यपदार्थे बहुव्रीहिरेव । अन्ये तु पूर्वार्थ इति विशेषं नेच्छन्ति, तन्मते - एकश्चासौ मुनिश्र्चति कर्मधारयप्रसङ्ग, द्वौ मुनी समाहृताविति द्विगुप्रसङ्गे, एको मुनिर्वंश्योऽस्येति बहुव्रीहिप्रसङ्ग चाव्ययीभाव एव समासो भवति ।। २६ ।।
न्या० स० - वंश्येन० । स इहाद्य इति ननु वंशे भवा इति व्युत्पत्त्या सवेंऽपि पाठका: 10 कारकाश्च कथं न लभ्यन्ते, प्राद्य एव कथं गृह्यते ? उच्यते, 'गौरणमुख्ययो:' इति न्यायात् । एकमुनि व्याकररणस्येति एको मुनिर्वंश्य एतावानेव विग्रहः, व्याकरणस्येत्येतत्तु भिन्नपदमतोऽन्यपदार्थाभावान्न बहुव्रीहिः, पूर्वपदार्थप्राधान्याच्च यथाक्रममेकवचन द्विवचन-बहुवचनानि तेषां च 'अनतो लुप्' [ ३. २. ६. ] प्रभेदविवक्षायामनेनैव समासः परं व्याकरणात् प्रथमा भवति अयं विशेषः । सप्त काशय इति काशे राज्ञोऽपत्यानि 'दुनादि' [ ६.१.११८] 15 इति य: 'बहुष्वस्त्रियां' [ ६. १. १२४. ] लुप् । एकविंशतिभारद्वाजमिति भरद्वाजस्येमे इत्येव कार्यं ‘तस्येदम्' [ ६. ३. १६०. ] इत्यण्, अपत्ये तु बिदाद्यत्रो 'यत्रित्र:' [ ६.१.५४ ] इति बहुषु लोपः स्यात्, यद्यप्यत्रैकविंशतिशब्दस्य विशेषलक्षणेनैकत्वं तथापि पूर्वपदार्थस्यैकविशतिशब्दवाच्यस्य बहुत्वाद् भारद्वाजा इति बहुत्वमेव शब्दशक्तिस्वाभाव्यात् । आगत इति त्र ग्रन्थ इति गम्यते, अन्यथा वंश्य इति विशेषरणं न घटते ।। ३. १. २६ ।।
20
पारेमध्येऽग्रेऽन्तः षष्ठ्या वा ॥ ३. १. ३० ।।
पारेप्रभृतीनि नामानि षष्ठ्यन्तेन नाम्ना सह पूर्वपदार्थे वा समस्यन्तेऽव्ययीभावश्च समासो भवति, तत्संनियोगे चाद्यानां त्रयाणामेकारान्तता निपात्यते । पारं गङ्गायाः पारेगङ्गम्, पारसमुद्रम्, मध्यं गङ्गायाः मध्येगङ्गम्, मध्येसमुद्रम्, अग्रं वनस्य श्रग्रेवरणम्, अग्रेसेनम्, अन्तर्गिरे: 25 अन्तर्गिरम्, अन्तर्गिरि । वावचनात्पक्षे षष्ठीसमासोऽपि भवति, गङ्गायाः `पारम् गङ्गापारम्, गङ्गामध्यम्, वनाग्रम्, गिर्यन्तः । षष्ठ्यति किम् ? पारं शोभनम् ।। ३० ।।