SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १०-१६.] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ १३ न्या० स०-प्राद्य० अविद्यमानो घोषो येषाम्, यथा-अनुदरा कन्येति, बहुव्रीहिणा गतत्वान्न मतुः । ननु लाघवार्थं समाहार एव युक्तः, यतः *मात्रालाघवमप्युत्सवाय मन्यन्ते वैयाकरणा:* इत्याह-बहुवचनमिति, अन्यथा श-ष-ससाहचर्यात् क-खयोः केवलयोरेव ग्रहः स्यात् । अव्यभिचारिणा व्यभिचारी यत्र नियम्यते तत् साहचर्यम् ।। १३ ।। अन्यो घोषवान् ॥ १. १. १४ ॥ अघोषेभ्योऽन्यः कादिनों घोषवत्संज्ञो भवति । ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म, य र ल व ह। घोषवत्प्रदेशाः-"घोषवति" [१. ३. २१.] इत्यादयः ।। १४ ।। __ न्या० स०-अन्य०-घोषो ध्वनिविद्यते यस्य स तथा । अन्वर्थता च10 "तुल्यस्थानास्य०" [१. १. १७.] इत्यत्र दर्शयिष्यते । घोषवानिति जातिनिर्देशः, अघोषापेक्षया चान्यत्वम्, तेन येषामतिशायी घोषस्तेऽन्यत्वजात्यध्यासिता घोषवन्त इत्यर्थः ।। १४ ।। ____20 य-र-ल-वा अन्तस्था . ॥ १. १. १५ ॥ य, र, ल, व, इत्येते वर्णा अन्तस्थासंज्ञा भवन्ति । बहुवचनं सानुनासि-15 कादिभेदपरिग्रहार्थम् । अन्तस्थाप्रदेशाः-"अञ्वर्गस्यान्तस्थातः” [१. ३. ३३.] इत्यादयः ।। १५ ।। न्या० स०-य-र-ल-वा०-"लिङ्गमशिष्यं लोकाश्रयत्वाद्" इति वर्णविशेषणमपि अन्तस्थाशब्दः स्त्रीलिङ्गो बाहुलकात् शब्दशक्तिस्वाभाव्याद् बहुत्ववृत्तिश्च प्राय इति । य र ल व इतीति-अर्थवत्त्वाभावे नामत्वाभावान्न स्यादिः ।। १५ ॥ अंxक)(पशषसाः शिद् ॥ १. १. १६ ॥ अनुस्वारो विसर्गो वज्राकृतिर्गजकुम्भाकृतिश्च वर्णः श-ष-साश्च शिट्संज्ञा भवन्ति । अकार-ककार-पकारा उच्चारणार्थाः । बहुवचनं वर्णेष्वपठितयोरपि Xक-) (पयोनर्णत्वार्थम् । शिटप्रदेशा:-"शिट: प्रथमद्वितीयस्य" [१. ३. ३५.] इत्यादयः ।। १६ ।। 25 ग्या० स०-अं अः०-शिट्-धुट्शब्दयोविषयनामत्वात् पुस्त्वम्। -क)(पयो
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy