SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४१० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ४. सू० १०१-१०३.] क्रियते, तत्रैवं विज्ञास्यते-त्वप्रत्यये नाम्नि च ह्रस्वो भवतीति; नैवम्-तत्र ह्य त्तरपद इत्यस्ति, ततश्च त्वप्रत्यये नाम्नि चोत्तरपदे ह्रस्वो भवतीति विज्ञानाद् रोहिरिणत्वफलमजत्वफलमित्यत्र स्यात्, इह न स्यात्-रोहिणित्वमिति पृथुगुच्यते ।। २. ४. १०० ।। भूवोच्च ळुस-टयोः ॥ २. ४. १०१॥ भ्र शब्दस्य कुंस-कुटयोरुत्तरपदयोः परयोह्र स्वोऽकारश्च भवति । 5 भ्रकुसः, भ्रकुंसः, भ्र कुटि:, भ्रकुटिः, भ्र कुंस-भ्रू कुटिशब्दावपीच्छन्त्यन्ये ॥ १०१ ॥ न्या० स०-भ्र वोऽच्च०। भ्र वौ कुसयति "कर्मणोऽण्" [५. १. ७२. ] इति, भ्र वः कुटि: कौटिल्यं वा । भृकुस-भृकुटिशब्दावपि नारायणकण्ठी मन्यते ॥ २. ४. १०१॥ 10 मालेषीकेष्टकस्यान्तेऽपि भारि-तूल-चिते ॥२. ४. १०२॥ माला-इषीका-इष्टकाशब्दानां केवलानामन्ते वर्तमानानां च भारिन्तूल-चितशब्देषूत्तरपदेषु परेषु ह्रस्वो भवति यथासंख्यम् । मालां बिभर्तीत्येवंशीलः-मालभारी, उत्पलमालभारी; मालभारिणी, उत्पलमालभारिणी; 15 इषीकतूलम्, मुजेषीकतूलम् ; इष्टकचितम्, पक्वेष्टकचितम् । इदमेवान्तःग्रहणं ज्ञापकम् ॐग्रहणवता नाम्ना न तदन्तविधिः इति, तेनदिग्धपादोपहतः सौत्रनाडिरित्यादौ पदादेशा-ऽऽयनण प्रत्ययादयो न भवन्ति ।। १०२ ॥ न्या० स०-मालेषी० । मालादिभिः प्रकृतस्य नाम्नो विशेषणात् तदन्तलाभात्20 केवलस्य व्यपदेशिवद्भावाद् ह्रस्वसिद्धौ किमर्थमन्तग्रहणमित्याशङ्कायामाह-इदमेवेति ।। २.४.१०२ ।। गोण्या मेये ॥२. ४. १०३ ।। गोणीशब्दस्य मानवाचिन उपचारान्मये वर्तमानस्य ह्रस्वो भवति । गोण्या मितो गोणिः । मेय इति किम् ? गोणी ॥ १०३ ।। .
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy