________________
[पा० १. सू० ८-१०.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ११
ए-ऐ-ओ-औ संध्य क्षरम् ॥ १. १.८॥
ए-ऐ-प्रो-ौ इत्येते वर्णाः सन्ध्यक्षरसंज्ञा भवन्ति । सन्ध्यक्षरप्रदेशाः"ऐदौत् सन्ध्यक्षरैः” [१. २. १२.] इत्यादयः ।। ८ ।।
न्या० स०-ए-ऐ-ग्रो-प्रो० इत्यादि-संधौ सति अक्षरं संध्यक्षरम्, तथाहि-अवर्णस्येवर्णेन सह संधावेकारः, एकारैकाराभ्यामैकारः, अवर्णस्योवर्णेनौकारः, प्रोकारौकाराभ्या- 5 मौकारः ।। ८ ।।
अं अः अनुस्वारविसगौ ॥ १. १. ६ ॥ __ अकाराव च्चारणाथौं, 'अं' इति नासिक्यो वर्णः, 'अः' इति कण्ठयः, तौ यथासंख्यमनुस्वार-विसर्गसंज्ञौ भवतः । अनुस्वार-विसर्गप्रदेशा:-"नोऽप्रशानोऽनुस्वारानुनासिकौ च पूर्नस्याधुट्परे" [१. ३. ८.] "रः पदान्ते विसर्ग-10 स्तयोः" [१. ३. ५३.] इत्यादयः ।। ६ ।।
न्या० स०-अं अः इत्यादि-विसृज्यते विरम्यते घत्रि विसर्गः, कर्मप्रत्ययोपलक्षणं चेदम्, तेन विसृष्टो विसर्जनीय इत्यपि संज्ञाद्वयं द्रष्टव्यम् ॥ ६ ॥
कादियंजनम् ॥ १. १. १० ॥
कादिनों हकारपर्यन्तो व्यञ्जनसंज्ञो भवति । क ख ग घ ङ, च छ15 ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र ल व, श ष स ह। व्यञ्जनप्रदेशा:-"नाम सिदय्व्य ञ्जने' [१. १. २१.] इत्यादयः ॥ १० ॥
न्या० स०-कादि०-आदीयते गृह्यतेऽस्मादर्थ इत्यादिः। स च सामीप्यव्यवस्था-प्रकाराऽवयवादिवृत्तिः। यथा-ग्रामादौ घोष इति सामीप्ये, ब्राह्मणादयो वर्णा20 इति व्यवस्थायाम्, पाढ्या देवदत्तादय इति प्रकारे, देवदत्तसदृशा इत्यर्थः, स्तम्भादयो गृहा इति अवयवे, स्तम्भावयवा इत्यर्थः । तत्र सामीप्यार्थवृत्तिग्रहणे ककारस्य व्यञ्जनसंज्ञा न स्यात्, उपलक्षणस्य कार्येऽनुपयोगात्, यथा-चित्रगुरानीयतामित्युक्त चित्रंगवोपलक्षितः पुमानेवाऽऽनीयते न तु चित्रा गौरिति । व्यवस्थार्थोऽपि न घटते, वर्णसमाम्नायस्य व्यवस्थितत्वेन व्यभिचाराभावात् *संभवे व्यभिचारे च विशेषणमर्थवद् इति हि न्यायः । कादीनां25 'परस्परमत्यन्तवैसदृश्यात् प्रकारार्थोऽपि न समीचीनतामञ्चति । अवयवार्थवृत्तिस्तु संगच्छते । ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एवेह तद्गुरगसंविज्ञानो