SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३६० ] बृहद्वृत्तिलघुन्याससंवलिते [ पा० ४. सू० ६३-६५.] मतसंग्रहार्थम्, अन्तग्रहणाभावे तु प्रानपि भिन्नप्रत्ययः स्यात् । किञ्चवान्तग्रहणभावे “अनेकवरणः सर्वस्य” [ ७.४. १०७ ] इति सर्वस्यादेशः स्यात् ।। २. ४. ६२ ।। मातुलाचार्योपाध्यायाद् वा ।। २. ४. ६३ ॥ एभ्यो धवनामभ्यस्तद्योगात् स्त्रियां वर्तमानेभ्यो ङीर्भवति, तत्सन्नियोगे चाऽनन्तो वा भवति । मातुलस्य भार्या - मातुलानी, मातुली; एवम् - प्राचार्यानी, क्षुभ्नादित्वाण्णत्वाभाव:, प्राचार्थी, प्राचार्येति नेच्छन्त्यन्ये, उपाध्यायानी, उपाध्यायी; प्रन्ये तु - मातुला, प्राचार्या, उपाध्यायेत्यपीच्छन्ति, तदर्थं ङीप विकल्पनीयः ।। ६३ ॥ T 5 सूर्याद् देवतायां वा ॥ २. ४. ६४ ॥ सूर्यशब्दाद् धवनाम्नस्तद्योगाद् देवतायां स्त्रियां वर्तमानाद् ङीर्वा10 भवति, तत्संनियोगे ग्रान् चान्तः । सूर्यस्य भार्या -सूर्याणी, पक्षे आबेव - सूर्या । देवतायामिति किम् ? सूर्यस्यादित्यस्य मनुष्यस्य वा भार्या मानुषी - सूरी । सूर्याणीति नेच्छन्त्यन्ये ।। ६४ ।। न्या० स० -- सूर्याद्दे० । सूर्यस्यादित्यस्येति - भगवतोऽपि हि सूर्यस्य वरप्रदानेन मानुषी या भार्या या सूरी, यथा- कुन्ती । सूर्यारणीति नेच्छन्त्यन्ये इति - पूर्वे, सूर्याणी तु15 शकट एव ।। २. ४. ६४ ।। यव-यवना-9रण्य-1 - हिमाद् दोषलिप्युरूमहत्त्वे ।। २. ४. ६५ ॥ धवाद् योगादिति च निवृत्तम्, यवादिभ्यः शब्देभ्यो यथासंख्यं दोषादौ गम्यमाने स्त्रियां ङीर्भवति, तत्संनियोगे ग्रान् चान्तः । दोषे - दुष्टो यवो -- 20 यवानी, यवानां दोषकारि सहचरितं द्रव्यान्तरम्, अप्रसवधर्मा यव एवेत्यन्ये । लिपौ - यवनानामियं लिपिः -- यवनानी, उक्तार्थत्वात् " तस्येदम्” [ ६. ३. १६०.] इत्यरण न भवति । उरुत्वे - उर्वरण्यम् - अरण्यानी । महत्त्व - महद्धिमं - हिमानी । लिपीति किम् ? यावनी वृत्तिः, यवनस्य भार्या - यवनी । यवा ऽरण्यहिमानां तु दोषाद्यभावे स्त्रीत्वमेव नास्तीति न प्रत्युदाह्रियते, संज्ञायां तु भवत्येव - 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy