________________
६
]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० २.]
सामानाधिकरण्यम्, तयोश्चात्यन्तभेदे घट-पटयोरिव नैकत्र वृत्तिः, नाप्यत्यन्ताभेदे भेदनिबन्धनत्वात् तस्य, नहि भवति नीलं नीलमिति । किञ्च, नीलशब्दादेव तदर्थप्रतिपत्तौ उत्पलशब्दाऽऽनर्थक्यप्रसङ्गः । तथैकं वस्तुसदेवेति नियम्यमाने विशेषण-विशेष्यभावाभावः, विशेषणाद् विशेष्यं कथञ्चिदर्थान्तरभूतमवगन्तव्यम्, अस्तित्वं चेह विशेषणम्, तस्य विशेष्यं वस्तु, तदेव वा स्याद् , अन्यदेव वा ? न तावत् तदेव, नहि तदेव तस्य विशेषणं 5 भवितुमर्हति, असति च विशेष्ये विशेषणत्वमपि न स्यात्, विशेष्यं विशिष्यते येन तद् विशेषणमिति व्युत्पत्तेः, अथान्यत तर्हि अन्यत्वाविशेषात सर्व सर्वस्य विशेषणं स्यात; समवायात् प्रतिनियतो विशेषण-विशेष्यभाव इति चेद्, न-सोऽप्य विष्वग्भावलक्षण एवैष्टव्यः, रूपान्तरपरिकल्पनायामनवस्थाप्रसङ्गः, अतो नासावत्यन्तं भेदेऽभेदे वा संभवतीति भेदाभेदलक्षणः स्याद्वादोऽकामेनाप्यभ्युपगन्तव्य इति । आदिग्रहणात् स्थान्यादेश-10 निमित्तनिमित्ति-प्रकृति-विकारभावादिग्रहः। किञ्च, शब्दानुशासनमिदम्, शब्दं च प्रति; विप्रतिपद्यन्तेनित्य इत्येके, अनित्य इत्यपरे, नित्यानित्य इति चान्ये । तत्र नित्यत्वाऽनित्यत्वयोरन्यतरपक्षपरिग्रहे सर्वोपादेयत्वविरहः स्यादित्याह
सर्वपार्षदत्वाच्चेति-स्वेन रूपेण व्यवस्थितं वस्तुतत्त्वं पृणाति पालयतीति "प्रः सद्" [ उणा० ८६७. ] इति सदि पर्षद् तत्र साधु “पर्षदो ण्यरणौ" [७. १. १८.] इति णे 15 पार्षदं साधारणमित्यर्थः। अथवा पार्षदः परिचारक उच्यते, स च पर्षत्साधारण इत्यर्थः, पार्षदत्वेन च साधारणत्वं लक्ष्यते, तेन सर्वेषां पार्षदं सर्वसाधारणमित्यर्थः। दृश्यते तत्त्वमेकदेशेनैभिरिति दर्शनानि नयाः, समस्तदर्शनानां यः समुदायः तत्साधारणस्याद्वादस्याभ्युपगमोऽतितरां निर्दोष इत्यर्थः। अतिरमणीयमिति-रिणगन्तात "प्रवचनीयादयः" [५. १. ८. ] इत्यनीयः ।
20 एतदेव स्वोक्तेन द्रढयति-अन्योऽन्येत्यादि-साध्यधर्मवैशिष्ट्य न पच्यते व्यक्तीक्रियते हेत्वादिभिरिति "मा-वा-वदि०"-[ उणा० ५६४. ] इति से पक्षः-साध्यधर्मविशिष्टो धर्मी, शब्दो नित्य इत्यादिः, प्रतिकूलः पक्षः प्रतिपक्षः, अन्योऽन्यं पक्षप्रतिपक्षास्तेषां भावः, एकस्मिन् मिणि परस्परविरुद्धधर्मोपन्यास इत्यर्थः, ततः । यथेति दृष्टान्तोपन्यासे । परे भवच्छासनादन्ये । सातिशयो मत्सरोऽसहनताऽस्त्येषामतिशायने मत्वर्थीये मत्सरिणः ।25 प्रकर्षणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति "व्यञ्जनाद् घ" [५. ३. १३२.] इति घत्रि प्रवादाः प्रवचनानि । यथा परस्परविरोधात् परे प्रवादा मत्सरिणः, न तथा त्वत्समय इति । अत्र विशेषणद्वारेण हेतमाह-पक्षपातीति-यतो रागनिमित्तवस्तस्वीकाररूपं पक्षं पातयति नाशयतीत्येवंशीलः, रागस्य जीवनाशं नष्टत्वात् । अत्रैव हेतुमाह-नयानशेषानविशेषमिच्छन्निति-नयान् नैगमादीन् समस्तानविशेषमभेदं यथा भवत्येवमङ्गीकुर्वन् । अयं30 भावः-नयानां समत्वेन दर्शनाद् रागमयस्य पक्षस्य पातितत्वात् समयस्य मत्सराभावः, परेषां तु विपर्ययात् तत्सद्भाव इति । सम्यगेति गच्छति शब्दोऽर्थमनेनेति "पुन्नाम्नि." [५. ३. १३०.] इति घे समयः संकेतः । यद्वा, सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः, स्वस्मिन् रूपे प्रतिष्ठा प्राप्नुवन्त्यस्मिन्निति समय प्रागमः । मत्सरित्वस्य विधयत्वात् तेनैव नत्रः संबन्धात् पक्षपातिशब्देन त्वसंबन्धात् प्रक्रमभेदाभावः ।
35