SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ . [ पा० ३. सू० ४६-५० . ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३२५ सिवस्तस्य सोरूपासंभवात्, सिवोऽनुबन्धनिर्देशात् यङ्लुपि न भवति - परिसेषिवीति । बहुवचनं परि-नि-विभिः सह यथासंख्यनिवृत्त्यर्थम् ।। ४८ । न्या० स० -- असोङ । सोङ े त्येतयोर्द्वन्द्व े पश्चात् नत्राऽन्यपदार्थे सिवूसहलक्षणे बहुव्रीहौ कर्मधारये च पुनर्द्वन्द्व: ।। २३.४८ ॥ स्तु-स्वञ्जश्चाटि नवा ॥ २. ३. ४६ ॥ परि-नि-विभ्यः परस्य स्तु-स्वञ्जोर्धात्वोरसोङ - सिवू - सह -स्सटां च सकारस्याटि सति षो वा भवति । पर्यष्टोत् पर्यस्तौत्; न्यष्टौत्, न्यस्तौत्; व्यष्टोत्, व्यस्तौत्; पर्यष्वजत, पर्यस्वजत; न्यष्वजत, न्यस्वजत; व्यष्वजत, व्यस्वजत; पर्यषीव्यत् पर्यसीव्यत्; न्यषीव्यत्, न्यसीव्यत् ; न्यषीव्यत्, व्यसीव्यत्; पर्यषहत, पर्यसहत, न्यषहत, न्यसहत; व्यषहत, व्यसहत ; 10 पर्यष्करोत्, पर्यस्करोत् । असोङसिवूसहेत्येव- पर्यं सोढयत्, पर्यंसीषिवत्, पर्यसीषहत् । स्तु-स्वञ्जोर्नित्यं प्राप्ते सिवू -सह- स्सटां चाप्राप्ते विभाषा ।। ४६ ।। 5 न्या० स०—स्तु-स्वञ्जः । स्तु- स्वञ्जनित्यं प्राप्त इति - " उपसर्गात् सुग्० " [ २. ३. ३६. ] इति “स्वञ्जव” [ २. ३. ४५. ] इत्याभ्यामित्यर्थः ।। २. ३. ४६ ।। निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥ २. ३. ५० ।। निरभ्यनुभ्यश्चकारात् परिनिविभ्यश्च परस्याप्रारिणकर्तृ केऽर्थे वर्तमानस्य स्यन्देः सकारस्य षो वा भवति । निःष्यन्दते तैलम् निः स्यन्दते तैलम् ; अभिष्यन्दते; अभिस्यन्दते; अनुष्यन्दते, अनुस्यन्दते; परिष्यन्दते; परिस्यन्दते, निष्यन्दते निस्यन्दते; विष्यन्दते, विस्यन्दते । शनिर्देशाद् यङ्लुपि न भवतिअभिसास्यन्दीति तैलम् । निरभ्यनोव ेति किम् ? प्रतिस्यन्दते तैलम् 120 पर्युदासोऽयं न प्रसज्य - अप्राणिनीति किम् ? परिस्यन्दते मत्स्य उदके । प्रतिषेध:, तेन - यत्र प्राणी चाप्राणी च कर्ता भवति, तत्राऽप्राण्याश्रयो विकल्पो भवति, न तु प्राण्याश्रयः प्रतिषेधः - अनुष्यन्देते मत्स्योदके, अनुस्यन्दते वा । निर्निभ्यां नेच्छन्त्येके ।। ५० ।। न्या० स० - निरभ्यनोः ० । एके इति - देवनन्दि- शकटललितस्वभावाः, नेस्तु 25 15
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy