SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३२० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० ४०.] सन्नन्त-स्तौति-वजितानां द्वित्वे सति मूलप्रकृतेरपि षवं नेच्छन्ति-अभ्यसूसवत्, । अभिसुसाव, अभिसोसूयते; सो-अभ्यसीसयत्, अभिसेसीयते, अभिसिसासति; स्तु-अभितोस्तूयते, अभितुस्ताव, अभ्यतुस्तवत् ; स्तुभ्-अभितुस्तुभे, अभितोस्तुभ्यते, अभ्यतुस्तुभत्; इत्यादि; पदादौ प्रतिषेधे प्राप्ते वचनम् ।। ३६ ।। न्या० स०-उपसर्गा० । अत्र प्रत्यष्टौत् न पर्यष्टौत् परिपूर्वस्य "स्तु-स्वख०" 5 [२. ३. ४६.] इति विकल्पभणनात् । ण्यन्तानामिति-धात्वन्तरत्वादिति शेषः ।' अटयपीति-विशेषविहितत्वेन पूर्व कृतमपि षत्वं परस्मिन् अडागमेऽसिद्धं स्यादिति । सौति-सवत्योरिति-"क् प्रसवे", "सुप्रसवैश्वर्ययोः" इत्यनयोः। सूति-सूयत्योरिति"धूङौक्, खूङौच्" इत्यनयोः । सुष्टुतमिति-सातिशयं स्तूयते स्म वाक्यम्, पूजायां तु सोरुपसर्गत्वाभावात् ।। २. ३. ३६ ॥ 10 स्था सेनि-सेध-सिच-सञ्जां द्वित्वेऽपि ॥ २. ३. ४० ॥ उपसर्गस्थात् नाम्यन्तस्थाकवर्गात् परेषां स्थादीनां सकारस्य षो भवति, द्वित्वेऽपि अटयपि-द्विर्वचनेनाऽटा द्वाभ्यां च व्यवधानेऽपीत्यर्थः । स्थाअधिष्ठास्यति, प्रतिष्ठास्यति, अधितष्ठौ, प्रतितष्ठौ, अध्यष्ठात्, अध्यष्ठास्यत्; सेनि-सेनया अभियाति-अभिषेणयति, अभिषिषेणयिषति, अभ्यषेणयत्,15 अभ्यषिषेणयिषत्; सेध-प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत्, प्रत्यषिषेधिषत्; सिच्-अभिषिञ्चति, सुषिक्त नाम किं तवात्र, अभिषिषिक्षति, अभ्यषिञ्चत्, अभ्यषिषिक्षत्; सञ्ज-अभिषजति, अभिषषञ्ज, अभिषिषङ्क्षति, अभ्यषजत्, अभ्यषिषङ्क्षत् ; ण्यन्तानामपि भवति-प्रतितिष्ठन्तं प्रयुक्त प्रतिष्ठापयति, एवं प्रतिषेधयति । उपसर्गादित्येव-अधिस्थास्यति,20 गतार्थत्वान्नात्राधिरुपसर्गः, वृक्षं वृक्षं परि सिञ्चति, अत्र वीप्स्यसंबद्धस्य परेर्धातना संबन्धाभावात् नोपसर्गत्वम्, निर्गताः सेचका अस्मान्निःसेचको देशः, अत्र येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा इति न भवति । सेधेति कृतगुणस्य निर्देशः सिध्यतिनिवृत्त्यर्थः-अभिसिध्यति, अकारस्तूच्चारणार्थो न तु शनिर्देशः; तेन यङ्लुप्यपि भवति-प्रतिषेषिधीति 125 सेनेरषोपदेशार्थं स्था-सञ्जोरवर्णान्तव्यवधानेऽपि विध्यर्थं सिच्-सञ्ज-सेधां षणि नियमबाधनार्थं सर्वेषामड्व्यवधाने पदादौ च षत्वार्थं वचनम् ।। ४० ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy