SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३१० ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० ३. सू० १६-१६.] तत्संपृक्तः समुदायो द्विरुच्चार्यते । तिसृभिरित्यत्र तु विधानबलात् न भवति । अधिकारश्चायमा षत्वविधैः ।। १५ ॥ न्या० स०-नाम्यन्तस्था० । अनुस्वारभवनादिति-नित्यत्वादन्तरङ्गत्वाच्चेत्यर्थः । बिसमिति-अव्युत्पन्नो ग्राह्यः, न तु "पटि-वीभ्यां डिसडिसी" [ उणा० ५७६. ] इति; यद्वा "विसच प्रेरणे" विस्यति "नाम्यूपान्त्यः " [५.१.५४. ] इति के-विसम्; 5 यदा तु डिस-डिसौ तदा विधानसामर्थ्यान्न भवति ।। २. ३. १५॥ समासेग्नेः स्तुतः ॥ २. ३. १६ ॥ अग्निशब्दात् परस्य स्तुत्शब्दसंबन्धिनः सकारस्य समासे षो भवति । अग्निष्टुत्, अग्निष्टुतौ; अग्निष्टुतः ।। १६ ।। न्या० स०-समासे०। असष इति वचनात् सकारस्य पदमध्यत्वं नास्तीति10 वचनम् ।। २. ३. १६ ।। ज्योतिरायुभ्यां च स्तोमस्य ॥२. ३. १७॥ ज्योतिरायुःशब्दाभ्यामग्नेश्च परस्य स्तोमशब्दसंबन्धिनः सकारस्य समासे षो भवति । ज्योतिःष्टोमः, आयु:ष्टोमः; अग्निष्टोमः ।- समास इत्येवज्योतिः स्तोमं दर्शयति ।। १७ ।। न्या० स०-ज्योतिरायुः । ज्योतिः स्तोमं दर्शयतीति-ज्योतिः प्रदीपादि कर्तृ समूहं दर्शयतीत्यर्थः ।। २. ३. १७ ॥ मातृ-पितुः स्वसुः ॥ २. ३. १८ ॥ मातृपितृभ्यां परस्य स्वसृशब्दसंबन्धिन: सकारस्य समासे षो भवति । मातृष्वसा, पितृष्वसा। समास इत्येव-मातुः स्वसा, पितः स्वसा ।। १८ ।। 20 न्या० स०--मातृ-पितुः। अकृतत्वात् पदादित्वाच्चाप्राप्तविधानम् । मातृपितुरित्यत्र सूत्रत्वात् “पा द्वन्द्व" [२. २. ३६.] इति न प्रवर्तते । वन्दिरत्नमतिस्तुआकारस्यानिर्देश ऋकारान्तस्वरूपपरिग्रहार्थः, ऋकारान्तस्वरूपं षष्ठीतत्पुरुष एव न तु द्वन्द्व इति मन्यते ।। २.३.१८ ।। अलपि वा ॥ २. ३. १६॥ मातृपितृभ्यां परस्य स्वसृशब्दसंबन्धिनः सकारस्याऽलुपि समासे षो वा 15 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy