SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ [पा० ३. सू० १-३.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ ३०१ अथ तृतीयः पादः नमस्-पुरसो गते क-ख-प-फि र सः ॥ २. ३. १ ॥ गतिसंज्ञकयोः 'नमस् पुरस्' इत्येतयोः संबन्धिनो रेफस्य क-ख-प-फेषु परेषु सकारादेशो भवति । नमस्कृत्य, नमस्करोति, नमस्कर्ता, नमस्कर्तुम्, नमस्कर्तव्यम्; पुरस्कृत्य, पुरस्करोति, पुरस्कर्ता, पुरस्कर्तुम्, पुरस्कर्तव्यम् ; 5 पुरस्खादः, पुरस्खादनम् ; पुरस्पातः, पुरस्पतनम्, पुरस्फक्कः, पुरस्फक्कनम् । गतेरिति किम् ? नमः कृत्वा, नमः करोति; नमःशब्दमुच्चारयतीत्यर्थः, नमःशब्दस्य कृग्योगे विकल्पेन गतिसंज्ञाविधानाद् वा तिस्रः पुरः करोति ।।१।। न्या० स०--नमस्-पुरसो० । नमस्कृत्येति-अनमो नमःकरणं पूर्व"साक्षादादि:." [ ३. १. १४. ] इति गतिसंज्ञायां "गति-क्वन्य:०" [३. १. ४२.] इति 10 सः । नमः कृत्वेति-अत्र नमः शब्दान्तरं न त्वव्ययमिति अम: “अनतो लुप्" [३. २. ६.]। पुर इति-"पृक" पिपर्तीति भ्राजादिनिपातनात् क्विपि दीर्घत्वे च "प्रोष्ठ्यादुर्" [ ४. ४. ११७. ] इत्युरि-पूः, ततः शस् ।। २. ३. १ ।। तिरसो वा ॥ २. ३. २ ॥ गतिसंज्ञकस्य तिरःशब्दस्य संबन्धिनो रेफस्य क-ख-प-फेषु परेषु सकारा-15 ऽऽदेशो वा भवति । तिरस्कृत्य, तिरःकृत्य; तिरस्करोति, तिरःकरोति; तिरस्कर्ता, तिरःकर्ता; तिरस्कर्तुम्, तिरः कर्तुम् । गतेरित्येव-तिरः कृत्वा काष्ठं गतः, अन्तर्धावपि “कृगो नवा" [३. १. १०.] इति विकल्पेन गतिसंज्ञाविधानात् तिरः कृत्वा । अगतेरप्यन्तर्धाविच्छत्यन्यः तिरस्कृत्वा ।।२।। 20 पुसः ॥ २. ३. ३॥ पुम्सशब्दसंबन्धिनो रेफस्य क-ख-प-फेषु परेषु सो भवति । पुस्कोकिलः, पुंस्खननम्, पुंस्पाकः, पुंस्फलम्, पुंस्काम्यति, पुंस्कः, पुंस्पाशः ।। ३ ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy