SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १०८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २८६ इति किम् ? गतशब्दप्रयोगे मा भूत्-गवीधुमतः सांकाश्यं चतुर्षु योजनेषु गतेषु भवति, अत्रैकार्थ्यं न भवति ; सप्तमी तु पूर्वेण नित्यं भवति । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे, अत्राऽप्यैकार्थ्याभावे पूर्वेण नित्यं सप्तमी। अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम्, भोजनं हि भोक्तृधर्मो नाऽध्वनोऽन्त इति पूर्ववत् सप्तम्येव । नन्वन्तेन सहाऽध्वनोऽभे- 5 दोपचारात् सिद्धमेवैकार्थ्यं किमनेन ? सत्यम्-कालेऽप्येवं मा भूदिति वचनम् ।। १०७ ।। न्या० स०--गते गम्ये० । कुतश्चिदवधेः गवीधुमत इत्यादिलक्षणात्, विवक्षितस्य इयत्तापरिच्छेदायोपात्तस्याध्वनोऽवसानं-सांकाश्याद्यन्तः । यद्भाव इति-यस्याध्वानश्चतुर्योजनरूपस्य भावेन गमनरूपेणाऽपरो भावः सांकाश्यभवनरूपो लक्ष्यते तस्येत्यर्थः ।10 ऐकार्यमिति-एकोऽर्थो द्रव्यमनेकभेदाऽधिष्ठानं यस्य स एकार्थस्तस्य भाव ऐकार्थ्यम् । तद्विभक्तिरिति-अन्यथैकविभक्तिमन्तरेण सामानाधिकरण्यं न घटेत । गवामी:-श्रीः तां दधाति “पृ. काहृषि०" [ उणा० ७२६. ] इति किदुः, सोऽत्राऽस्ति मतुः, अव्युत्पन्नो वा गवीधुमच्छब्दः। अद्य नश्चतुषु गव्यूतेष्विति-गव्यूतिरत्रास्ति विषयतयाऽवयवितया वा "अभ्रादिभ्यः" [७. २. ४६.] अः, गव्यूतं क्रोश एकः । नन्वन्तेनेति-चतुर्दा योजनेषु15 यत् सांकाश्यं तच्चत्वारि योजनानि ।। २. २. १०७ ।। षष्ठी वानादरे ॥२. २. १०८ ॥ यद्भावो भावलक्षणं तस्मिन् भाववति वर्तमानाद् गौणान्नाम्नोऽनादरे गम्यमाने षष्ठी वा भवति, पक्षे पूर्वेण सप्तमी। रुदतो लोकस्य प्रावाजीत्, रुदति लोके प्रावाजीत् ; क्रोशतो बन्धुवर्गस्य प्रावाजीत्, क्रोशति बन्धुवर्गे 20 प्रावाजीत् ; रुदन्तं क्रोशन्तं वाऽनादृत्य प्राव्राजीदित्यर्थः ॥ १०८ ।। न्या० स०-षष्ठी वा० प्तमीति-वाशब्दमन्तरेणानादरे पष्ठयाsपवादतया सप्तमी बाध्येत । ननु “यद्भाव:०" [२. २. १०६.] इति भावलक्षणे सामान्ये सप्तमी, तत्रानादर इति विशेषे षष्ठी, सप्तम्यामनादरप्रतीतिरर्थप्रकरणादेरित्यर्थभेदान्न बाध्य-बाधकभावोऽस्तीति किं पक्षे सप्तम्यर्थेन वाशब्देनेति, उच्यते-यथाऽनादरादन्यत्र25 साम्यतः सप्तम्यस्ति, एवं "शेषे" [२. २. ८१.] इत्यनेन षष्ठ्यपि, तत्रोभयत्रापि प्रव्रजन् रुदतापि लोकेन निवर्त्यमानस्तद्रोदनमनादृत्य प्रावाजीदित्यनादरः प्रकरणादेः प्रतीयत इति सामान्येऽर्थे षष्ठी सप्तमी बाधेतेति पक्षे तदर्थं वावचनम् ।। २. २. १०८ ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy