SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिल घुन्याससवलिते [पा० २. सू० ४४.] "सहार्थे" [२. २. ४५. ] इत्येव तृतीया सिध्यति, लक्ष्यलक्षणभावे तु षष्ठी मा भूदितीत्थंभूतलक्षणग्रहणम् । तथा 'धान्येनार्थः, धान्येनाऽर्थी, मासेन पूर्वः, मासेनाऽवरः, असिना कलहः, वाचा निपुणः, गुडेन मिश्रः, आचारेण श्लक्ष्णः, माषेणोनः, माषेण न्यून, मासेन विकलः पुंसाऽनुजः, शङ्कुलया खण्ड: ; गिरिणा कारण:' इत्यादौ हेतौ कृत- भवत्यादिगम्यमानक्रियापेक्षया कर्तरि 5 करणे वा तृतीयेति ।। ४४ ।। २५० ] न्या० स० - - हेतु क० । फलसाधनयोग्य' इति - फलं - कार्यं तस्य साधनं - निष्पादनं करणमिति यावत्, तत्र योग्य : - सामान्यतो दृष्टसामर्थ्यः, योग्यग्रहरणमन्तरेण फलसाधन इत्युच्यमाने यः फलं साधयति क्रियाविष्टस्तत्र प्रतिपत्तिः स्यात्, योग्यग्रहणेन तु योग्यतामात्रप्रतिपत्तावकुर्वन्नपि तत्फलं हेतुरिति, योग्योऽत्र निर्व्यापारो गृह्यते सव्यापारत्वे तु 10 कर्तृत्वमेव धनादीनि कुलादिकमकुर्वन्त्यपि योग्यतामात्रेण तृतीयामुत्पादयन्ति, अन्नन वसतीत्यादावपि क्रियायामन्नादेर्योग्यतामात्रविवक्षैवेति तावेव तृतीया । इममिति - प्रत्यक्षम्, कञ्चिदिति-विवक्षितम्, प्रकारमिति थ प्रत्ययार्थः, श्रापन्न इति भूतार्थः, भूङ: प्राप्त्यर्थस्य प्रयोगात् । स लक्ष्यते येनेति - लक्षयतेः करणेऽनट् इत्थम्भूतस्य लक्षणमिति कर्मषष्ठ्या समासः, वृत्तौ स लक्ष्यते येनेति त्वर्थकथनमात्रम् । 15 " इत्थम्भूतग्रहणं किमिति - ननु इत्थम्भूतग्रहणं किमर्थम् ? यतो 'लक्षणे' इत्युक्त ेऽपि 'अपि भवान् कमण्डलुना छात्रमद्राक्षोद्' इत्याद्युदाहरणानि भविष्यन्ति, प्रथेत्थं भरणष्यन्ति भवन्तः - वृक्षं प्रति विद्योतनमित्यत्रापि तृतीया स्यात्, तन्न - यतो “भागिनि ० [२. २. ३७.] इति सूत्रेण प्रतिना योगे द्वितीया भविष्यति, एवं सति प्रतेरयोगेऽपि द्योतकत्वाद् वृक्षं विद्योतनं स्यात्, न तु वृक्षंणेति, सत्यम् - इत्थंभूतग्रहणमेवं ज्ञापयति-यत्र 20 साक्षात् प्रतिना योगो भवति तत्र “भागिनि च प्रतिपर्यनुभिः " [ २. २.३७. ] इति सूत्रेण द्वितीया भवति, अत्र तु वृक्षस्य विद्योतनमित्येव भवति । अपि भवान् कमण्डलुपारिणमिति - "विशेषरण सर्वादि०" [ ३. १. १५०. ] इति सूत्रेण विशेषणद्वारेण पाणे: पूर्वनिपाते प्राप्त "न सप्तमीन्द्वादिभ्यश्व" [ ३. १. १५५. ] इति निषेधात् कमण्डलोः प्राग्निपातः । ननु वाक्यावस्थायां कमण्डलुशब्दात् किमिति न तृतीया ? उच्यते - वाक्ये 25 श्राख्यातपदेन सामानाधिकरण्यमिति प्रधानत्वेन गौणत्वाभावात्; तहि समासे सति कथं न ? उच्यते - तदा लक्ष्य प्रधानत्वान्न; ननु समासे सति विभक्त्यन्तवर्जनान्नामत्वाभावे १. कर्त्तृ प्रयोजकस्यापि शास्त्रकृतां हेतुत्वेन व्यवहारादुभयगतत्वेऽपि लौकिक एव हेतुरिह गृह्यते, कर्तुः प्रयोजके हि कर्तृत्वात् कर्तृ द्वारेणैव तृतीयासिद्धेरित्याह - फलसाधनयोग्य इति । 30
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy