SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ [ पा० २. सू० ३७-३८.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २४३ ममाऽभि स्यात् तद् दीयताम्, अत्राऽभिना भागसम्बन्धो द्योत्यते, योऽत्र मम भागः स्यादित्यर्थः । अत्रापि बहुवचनं यथासङ्ख्याऽभावार्थम्, एवमुत्तरत्र ।। ३६ ।। साकल्येनेति-सहार्थे न्या० स०-- लक्षरण० । समुदायस्येति-वनादेरित्यर्थः । तृतीया । इत्थंभूत इति - प्रनेन साधुत्वादिना प्रकारेण [ प्रकार:- सामान्यस्य भेदको 5 धर्मो विशेष इत्यर्थः ] इत्थं भवनं " क्लीबे" [ ५.३.१२३. ] क्तः, इत्थंभूतमत्रास्ति "भ्रादिभ्यः " [ ७. २. ४६. ]; यद्वा - इत्थं देवदत्तो भवत्यस्मिन् मात्रादी " अद्यर्थात् ० " [ ५. १. १२. ] इति क्त े - इत्थंभूतो मात्रादिः, “श्रव्ययं प्र० " [ ३. १.४८. ] इति सः । वृक्षं वृक्षमभिसेक इति श्रत्र वृक्षस्य वृक्षस्य सेक इति सेकेन वृक्षाणां वीप्स्यमानानां सेकं प्रति यस्तेषां साध्यसाधनभावलक्षणः सम्बन्धः सोऽभिना द्योत्यते; वीप्सा तु द्विर्वचन - 10 द्ययैवेति । अन्ये त्वन्यथा वर्णयन्ति - वीप्सा - विप्स्यमानयोः सम्बन्धो द्विर्वचनेनैव द्योत्यते, नवभिना, इति सम्बन्धमद्योतयतापि तेन योगे वचनाद् द्वितीयेति ।। २. २. ३६ । भागिनि च प्रति- पर्यनुभिः ॥ २. २.३७ ॥ स्वीक्रियमाणोंऽशो भागः, तत्स्वामी भागी, तत्र लक्षणादिषु चार्थेषु वर्तमानात् प्रति- पर्यनुभिर्युक्ताद् गौणान्नाम्नो द्वितीया भवति । भागिनि - 15 यदत्र मां प्रति मां परि मामनु स्यात्, योऽत्र मम भाग प्रभवति स दीयता - मित्यर्थः ; लक्षणे - वृक्षं प्रति वृक्षं परि वृक्षमनु विद्योतते विद्युत् ; वीप्स्ये - वृक्षं वृक्षं प्रति वृक्षं वृक्षं परि वृक्षं वृक्षमनु सेचनम् ; इत्थंभूते - साधुर्देवदत्तो मातरं प्रति मातरं परि मातरमनु । एतेष्विति किम् ? अनु वदनस्याशनिर्गता, समीप इत्यर्थः ।। ३७ ।। 20 न्या० स० -- भागिनि च । श्राभवतीति श्राङपूर्वको भूधातुर्भागागमे वर्त्तत इति हि धातुपारायणविदः । स्वीक्रियमाण इति - यस्त्वस्वीक्रियमाणेऽप्यंशे भागशब्दः प्रयुज्यते - "नगरस्य भागः, प्रियङ्गोर्भाग:' इति स स्वीक्रियमाणभागसादृश्यादिति ।। २.२३७ ।। हेतु- सहार्थेऽनुना ॥ २. २.३८ ॥ हेतुर्जनकः, सहार्थस्तुल्ययोगो विद्यमानता च तद्विषयोऽपि सहार्थ उपचारात्; तयोर्वर्तमानादनुना युक्ताद् गौरणान्नाम्नो द्वितीया भवति । 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy