SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २३६ ] बृहवृत्ति-लघुन्याससंवलिते [पा० २. सू० ३०.] समस्तावयवसंयोगस्तद्-अभिव्यापकम्, तद्धि प्राधेयेनाभिव्याप्यते, प्राधेयं वाऽभिव्याप्नोतीति कृद् "बहुलम्" [५. १. २.] इति कर्मण्यपि णकः; तिलेषु तैलम्, दध्नि सपिः, गवि गोत्वम्, तन्तुषु पटः । यद् प्राधेयसनिधिमात्रेण क्रियाहेतुस्तत्-सामीप्यकम्-गङ्गायां घोषः, कूपेषु गर्गकुलम्, बन्धुष्वास्ते, गुरौ वसति । निमित्तमेव-नैमित्तिकम्-युद्धे सन्नह्यते, शरदि पुष्प्यन्ति सप्तच्छदाः, 5 आतपे क्लाम्यति, छायायामाश्वसिति । उपचारे भवम्-औपचारिकम्अमुल्यग्रे करिशतमास्ते, स मे मुष्टिमध्ये तिष्ठति, यो यस्य द्वष्यः स तस्याऽक्षणोः प्रतिवसति, यो यस्य प्रियः स तस्य हृदये वसति । अधिकरणा-ऽऽधारप्रदेशाः-“सप्तम्यधिकरणे' [२. २. ६५.], "अद्यर्थाच्चाधारे" [५. १. १२.] इत्यादयः ।। ३० ।। 10 न्या० स०--क्रियाऽऽश्रयस्य०। आश्रीयत इत्याश्रयः “भूश्यद०" [५. ३. २३.] इत्यलि, क्रियाया पाश्रय क्रियाश्रयः, क्रियासम्पादक इत्यर्थः । आध्रियेते अवतिष्ठेते क्रियाश्रयो कर्तृ-कर्मणी अस्मिन्निति “न्यायावाय." [५. ३. १३४.] इत्यादिना घत्रि-- आधारः। विचटनक्रियायामिति--विचटनमवयवानामुच्छ्नता । हेतुत्वं प्रतिपद्यत इतियदुक्त 15 "कर्तृ कर्मव्यवहितामसाक्षाद्धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम्" ।। १ ।। विषयाय प्रभवति “तस्मै योगादेः शक्त" [ ६. ४. ६४. ] इतीकरिण-वैषयिकम् । औपश्लेषिकमिति-"अध्यात्मादिभ्य इकण" [ ६. ३. ७८.] । गवि गोत्वमितिअनवयवस्यापि गोत्वादेर्व्यक्त्याद्यवयवान् व्याप्याऽवतिष्ठमानस्य व्यक्त्यादिरभिव्यापक20 एवाधारः। सामीप्यकमिति-भेषजादिटयणन्ता स्वार्थे कः। नन्वाश्रय आधारो भवति, प्राश्रयश्च संयोग-समवायाभ्यां भवति, न चावस्थितिक्रियाश्रयेण घोषादिना गङ्गादेः संयोग-समवायौ स्तः, नैष दोषः-यदायत्ता हि यस्य स्थितिः स विनाऽपि संयोगसमवायौ तस्याश्रयो भवति, यथा-राजपुरुष इत्यत्र न राज्ञा सह संयोगसमवायौ स्तः, अथ च तदधोनस्थितित्वाद् राजाश्रय पुरुष इति लोके व्यपदिश्यते । नैमित्तिकमिति-अत्र25 "विनयादिभ्यः" [७. २. १६६.] इतीकण । युद्धे सन्नात इति-सन्नहनादयोऽन्यत्रापि केनचिनिमित्तेन सम्भवन्तीति न युद्धा दिवैषयिकः । औपचारिकमिति-अत्र “अध्यात्मादिभ्य इकण" [ ६. ३. ७८. ], अन्य पावस्थितस्यान्यत्राध्यारोप उपचारः। अगुल्यग्रे करिशतमिति-अत्र हि करिशतादीनामन्यत्रावस्थितानां केनापि प्रयोजनादिनाङ गुल्यग्रादावध्यारोप्यमाणानामङ गुल्यग्रादिरौपश्लेषिकाद् भिन्न औपचारिक आधार उच्यते, यदा30 त्वङ गुल्यग्रादिशब्देनोपचारादाधेयाधिष्ठितो देश एवोच्यते तदा प्रौपश्लेषिक एवाधारः; अत एवाह
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy