________________
२२६ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० २०-२२.]
शाकटादीनां पाणिनेश्च, तेषां परमुभयप्राप्ताविति सूत्राभावः, विष्णुवातिक एव सूत्र- ' सद्भावः ।। २. २. १६ ॥
अधेः शीङ्ग-स्था-99स आधारः ॥ २. २. २० ॥
अधेः सम्बद्धानां 'शीङ् स्था प्रास्' इत्येतेषां य आधारस्तत् कारक कर्मसंज्ञं भवति । ग्राममधिशेते, ग्रामस्याधिशयनम्, ग्रामोऽधिशय्यते, 5 ग्रामोऽधिशयितः; ग्राममधितिष्ठति; ग्राममध्यास्ते । अधेरिति किम् ? शयने शेते, गृहे तिष्ठति, कटे प्रास्ते । अाधार इति किम् ? ग्रामोऽधिशयितो मैत्रेण, पौरुषेणाधितिष्ठति; कर्तृ-करणे न भवतः । अकर्मका अपि हि धातवः सोपसर्गाः सकर्मका भवन्तीति सिद्धं सकर्मकत्वम्, आधारबाधनार्थं तु वचनम् ।। २० ।।
10
उपान्वध्यावसः ॥ २. २. २१ ॥
उप-अनु-अधि-प्राभिविशिष्टस्य वसतेर्य आधारः स कर्मसंज्ञो भवति । ग्राममुपवसति, ग्राममुपोषितः, ग्रामस्योपवसनम्, ग्राम उपोष्यते, पर्वतमनुवसति; पुरमधिवसति; आवसथमावसति । अन्वादिसाहचर्यादुपस्य स्थानार्थकस्यैव ग्रहणं नाशननिवृत्त्यर्थस्य; तेन ग्रामे उपवसति-भोजननिवृत्ति15 करोतीत्यत्र न भवति । अदाद्यनदाद्योरनदादेरेव ग्रहणम् इति वस्तेन भवति ।। २१ ॥
न्या० स०--उपान्वध्या०। उपादिभिर्द्वन्द्वकृत्वा ततस्ते पूर्वे यस्मात् स चासौ वसश्च ति बहुव्रीहिगर्भो विशेषणसमासो मयूरव्यंसकादित्वात् पूर्वस्य लोपश्च, एभ्यः परो वसिति वा समासः । शब्दशक्तिप्रामाण्यादन्वादिपूर्वो वसतिः स्थानार्थमाचष्टे, तत्साह-20 चर्यादुपपूर्वस्यापि स्थानार्थस्य परिग्रहो न तु भोजननिवृत्तिवचनस्येत्यत आह-अन्वादिसाहचर्यादिति । स्थानार्थद्योतकत्वादुपशब्दोऽपि स्थानार्थ इत्युक्त-स्थानार्थस्येति ।। २.२.२१ ॥
वाभि-निविशः ॥ २. २. २२ ॥
अभि-निनोपसर्गसमुदायेन विशिष्टस्य विशेराधारः कर्मसंज्ञो वा भवति ।25 ग्राममभिनिविशते, पर्वतमभिनिविशते, ग्रामोऽभिनिविश्यते ; ग्रामोऽभिनिविष्टः ।