SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० १.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २०६ न्या० स०--उः पदान्ते । दिवमिति-कलापकेऽस्य दिवशब्दस्यामि सति अन्त्यस्यात्वं विकल्पेन भवति, ततो द्यामित्यपि भवति, शस्यपि विकल्पेनाकारमिच्छन्ति केचित् । अन्तर्वत्तिनीं विभक्तिमाश्रित्य पदत्वेऽनेनोत्वे कथं दिवाश्रय इत्यादीत्यत पाहअकारागमे भविष्यतीति-अकारागमे चाकारागमकरणसामर्थ्यादेव उर्न विभक्त : पूर्व वाऽकारागमे पदान्तत्वाभावादेव वा। वृत्तिविषय इति-समासविषये प्रयुज्यते, केवलस्तु । न प्रयुज्यत इत्यर्थः ।। २. १. ११८ ।। ।। इति द्वितीयाध्यायस्यस्य प्रथमः पादः ।। ६ प्रथ द्वितीयः पाद: 0 क्रियाहेतुः कारकम् ॥ २. २. १॥ क्रियायाः हेतु:-कारणं कादि कारकसंज्ञं भवति, तच्च द्रव्याणां10 स्व-पराश्रयसमवेतक्रियानिवर्तकं सामर्थ्य शक्तिरित्याचक्षते; शक्तिश्च सहभूर्यावद्रव्यभाविनी च क्रियाकाल एवाभिव्यज्यते । करोतीति कारकमित्यन्वर्थसंज्ञासमाश्रयणाच्चानाश्रितव्यापारस्य निमित्तत्वमात्रेण हेत्वादेः कारकसंज्ञा न भवति । कारकप्रदेशा:-"कारकं कृता" [३. १. ६८.] इत्येवमादयः ।। १ ।। न्या० स०-क्रियाहेतुः० । क्रियत इति क्रिया "कृगः श च वा" [५. ३. १००.]15 "क्यः शिति" [३. ४. ७०.] "रिः श-क्या-ऽऽशीर्ये' [४. ३. ११०.] भाव-कर्मणोरिति व्युत्पत्तिः; यदा त्वपादानादौ शप्रत्ययस्तदा क्यो नास्ति, तदेयादेशः । क्रियायाः कारकमित्युक्त क्रियायां कर्तु मुख्यत्वात् तस्यैव कारकत्वं स्यात् गौणमुख्ययो:०% इति न्यायात् । हेतु: कारकमित्युक्त तु द्रव्यस्य मुख्यत्वात् तद्धेतोरेव कटं करोतीत्यादौ कारकत्वं स्यात्, न तु चैत्रो यातीत्यादौ । कारकशब्द: कर्तृ मात्रपर्यायः, कादीत्यत्र20 कर्तृ शब्दस्तु कर्तृ विशेषवचनः । यथाह पाणिनिः स्वव्यापारे तु कर्तृत्वं, सर्वत्रैवास्ति कारके । व्यापारभेदापेक्षायां, करणत्वादिसंभवः ।। १ ।। फलार्थी य: स्वतन्त्रः सन्, फलायारभते क्रियाम् । नियोक्ता परतन्त्राणां, स कर्ता नाम कारकम् ।। २ ।। 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy