SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० १०२.] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ २०१ अत एव चान्द्र-भोजौ मन्येते-पाद-पद्शब्दाभ्यामपि पदा, पादेनेत्यादि सिद्धं, परं पद्शब्दश्चरणवाच्येव, पादशब्दस्य त्वनेकार्थस्यापि ‘पदा, पादेन' इत्यादि सिद्धयर्थं पादशब्दोपादानन् । हृदय-हृद्भयां सिद्धे हृदयोपादानमृषौ विशेषार्थम्-हृदः हृदयान् ऋषीन् । हृद्शब्दस्तु ऋषिवचनो नास्ति ।। २. १. १०१ ।। य स्वरे पादः पदणि-क्य-त्रुटि ॥ २. १. १०२॥ 5 पादिति पादशब्दस्य लुप्ताकारस्य पादयतेर्वा कृतणिलोपस्य निर्देशः, पादन्तस्य नाम्नो णि-क्य-घुड्वजिते यकारादौ स्वरादौ च प्रत्यये परे पदित्यमादेशो भवति; स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्यैव भवति न तदन्तस्य सर्वस्य । व्याघ्रस्येव पादावस्य--व्याघ्रपात्, तस्यापत्यम्-- वैयाघ्रपद्यः; द्वौ पादावस्य द्विपात-द्विपदः पश्य, द्विपदा, द्विपदे, त्रिपदी गाथा; 10 व्याघ्रपदी स्त्री कुले वा; द्वौ द्वौ पादौ ददाति--द्विपदिकां ददाति, द्विपदे हितम्-- द्विपदीयम्; पादमाचष्टे पद्यमानं प्रयुक्त वेति पादयतेः क्विपि पाद्-पदः पश्य, पदा, पदे, पदी कुले; अत्र व्यपदेशिवद्भावेन पादन्तत्वम् । य-स्वर इति किम् ? द्विपाट्याम्, द्विपाद्भिः, द्विपात्काम्यति । अणि-क्य-घुटीति किम् ? पादमाचष्टे--पादयति ; क्येति क्यन्-क्यङोरविशेषेण ग्रहणम्, व्याघ्रपादमिच्छति15 स इवाचरतीति च--व्याघ्रपाद्यति, व्याघ्रपाद्यते, द्विपादौ, द्विपादः, द्विपान्दि कुलानि । नाम्न इत्येव--उपपद्यत इत्येवंशील उपपादुकः । पादयतेः क्विबन्तस्य प्रयोगो नास्तीति कश्चित् ।। १०२ ।। न्या० स०--य-स्वर०। पादन्तस्य नाम्न इति-पूर्वसूत्रेषु नाम्न इत्यधिचक्राणोऽपि नाऽध्याहारि, धातोस्तत्रासम्भवात्, अत्र धातुसम्भवे नाम्न इति विशेषणं20 चक्रे। अनेकवर्णत्वात् सर्वस्य पादन्तस्य प्राप्नोतीत्याह-निर्दिश्यमानस्येति । द्विपदिकामिति-"संख्या समाहारे च०" [३. १. ६६.] इति सुप्रख्यादेरित्यकल् (?) ["सुसंख्या द्" ७. ३. १५०. इति पाद्, “संख्यादे." ७. २. १५२. इत्यकल् ] अलोपश्च, ननु "अवर्णेवर्णस्य" [७. ४. ६८.] इति सिद्धेऽकल्सन्नियोगे किमल्लोपेन, सत्यम्-स्थानित्वाभावार्थम्, अन्यथा “स्वरस्य०" [७. ४. ११०.] इति स्थानित्वे पादशब्दाभावान्न स्यात्25 पदादेशः। पादमाचष्टे पादयतीति-अत्र व्यञ्जनान्तः पाच्छब्दो लिख्यते, सस्वरे तु णिज्यल्लोपे "स्वरस्य०" [७. ४. ११०.] इति स्थानित्वे पाच्छब्दाभावाद् द्वयङ्गविकलत्वं स्यात्, तहि पादमाचष्ट इति वाक्ये पदः पश्येति यद् दर्शितं तत् कथम् ?, उच्यतेप्रत्यासत्तिन्यायाद्, यस्मिन् प्रत्ययेऽकारलोपस्तस्मिन् यद्यादेशोऽपि प्राप्नोति, अत्र तु
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy