SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १९८ ] बृहद्वृत्तिलवुन्याससंवलिते [पा० १. सू० ६६-६८.] 10 चर्मण्वत्य-9bठीवच्-चक्रीवत्-कक्षीवद्-रुमण्वत् । ॥२. १. ६६ ॥ एते शब्दा मत्वन्ता नाम्नि विषये निपात्यन्ते । चर्मन्शब्दस्य नलोपाभावो गत्वं च निपात्यते--चर्मण्वती नाम नदी, अस्थिशब्दस्याष्ठीभावः-- अष्ठीवान जङ्गोरुसंधिः, चक्रशब्दस्य चक्रीभाव:--चक्रीवान् नाम गर्दभः, 5 चक्रीवान् नाम राजा, कक्ष्याशब्दस्य कक्षीभावः--कक्षीवान् नाम ऋषिः, लवणशब्दस्य रुमण्भाव:--रुमण्वान् नाम पर्वतः । अन्ये त्वाहुः--रुमन्निति प्रकृत्यन्तरमस्ति, तस्यैतन्निपातनं नकारलोपाभावार्थं णत्वार्थं च, वत्वं तु यथायोगमस्त्येव । नाम्नीत्येव--चर्मवती, अस्थिमान्, चक्रवान्, कक्ष्यावान्, लवणवान् ।। ६६ ॥ न्या० स०-चर्मण्वत्यष्ठीव०। कक्ष्याशब्दस्येति-कक्षे भवा कक्षाय हिता वा कक्षे साधुर्वा “दिगादिदेहांशाद्य:०" [६. ३. १२४.] इत्यादिभिर्ये-कक्ष्या ब्रह्मणः सादृश्यमुद्योगश्चेत्यर्थः। लवणस्येति-लुनाति वैरस्यं नन्द्याद्यनः, अतएव गणपाठाण्णत्वम् ।। २. १. ६६ ।। उदन्वानन्धौ च ॥ २. १. ९७॥ आपो धीयन्तेऽस्मिन्नित्यब्धिः, अब्धौ नाम्नि चोदन्वानिति उदकशब्दस्य मतावुदभावो निपात्यते । उदन्वान् घटः, उदन्वान् मेघः, यस्मिन्नुदकं धीयते स एवमुच्यते; नाम्नि-उदन्वान् समुद्रः, उदन्वान् नाम ऋषिः, यस्यौदन्वतः पुत्रः; उदन्वान् नाम आश्रमः । अब्धौ चेति किम् ? उदकवान् घटः, अत्र घटस्योदकसम्बन्धमानं विविक्षितं, न दधातीत्यर्थः ।। ६७ ॥ 20 15 न्या० स०-उदन्वान०। उदन्भावसामर्थ्यान्नलोपो न, अन्यथा उदभावो निपात्येत ।। २.१.६७ ।। राजन्वान् सुराज्ञि ॥२. १. ९८॥ शोभनो राजा यस्य तस्मिन्नभिधेये राजन्वानिति मतौ नलोपाभावो निपात्यते । राजन्वान् देशः, राजन्वती पृथ्वी; राजन्वत्यः प्रजाः । सुराज्ञीति25 किम् ? राजवान् देशः ।। ६८ ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy