SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [पा० १. सू० ६६. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः [ १८१ "धुटस्तृतीयः " [२. १. ७६.] इति दत्वाभावाद् दकारस्य श्रवणं न स्यात् । स्वनडुदितिअत्र बहुत्वे वाक्यं कार्यन्, एकत्वे तु " पुमनडुन्नौ ०" [ ७. ३. १७३. ] इति कच् स्यात् । क्वस्सितीति-क्वसोः ककारो “वसं निवासे” “वसिक् प्राच्छादने" अनयोर्व्या दासार्थ:, तेन वसे: क्विपि यजादित्वाद् वृति दीर्घत्वे-ऊः, क्षौमं वस्ते क्विपि - क्षौमवः । अथ वसतिवस्त्योः सकारन्तत्वाव्यभिचाराद् व्यभिचारे च विशेषणस्यार्थवत्त्वाद् व्यभिचारिणः क्वस 5 एव ग्रहणं भविष्यति, कुतः ? वस्सिति सकारोपादानात्, नवम् - अन्यथापि प्रतीतिः स्यात्, यङलुबन्तयोरेतयोरेव ह्यस्तनीसिवन्तयोविशेषविहितत्वेन “सेः स्--धां च० [४. ३. ७६ ] इति सिव्लोपाभावे वस्सिति द्विः सकाररूपं ग्रहणं स्यात्, इतीह मा भूदिति ककारकरणम् । रुत्व-ढत्वयोरेव बाधकमिति-अनडुह शब्दे "हो धुट् - पदान्ते” [२. १.८२. ] इत्यनेन ढत्वस्य शेषेषु रुत्वस्य प्राप्तिः । प्राप्ते चाप्राप्ते चेति-क्लीबे विद्वत् कुलमित्या - 10 दिप्राप्ते, पुंस्त्वे तु विद्वानित्यादौ प्राप्ते इति तस्य न बाधकम् ।। २. १. ६८ ।। ऋत्विज्-दिश्-दृश्-स्पृश्-सज्-दधृषुणि हो ग ।। २. १. ६६ । एषां पदान्ते वर्तमानानां गोऽन्तादेशो भवति । ऋतुम् ऋतौ ऋतवे ऋतुप्रयोजनो वा यजते - ऋत्विक्, ऋत्विग्; दिश्यते इति - दिक्, दिग्; पश्यति 15 दर्शनं वा दृक्, दृग्; अन्य इव दृश्यते - अन्यादृग्, अन्यादृक् ; एवं यादृग्, यादृक्; तादृग्, तादृक् ; घृतं स्पृशति - घृतस्पृग्, घृतस्पृक्; मन्त्रेण स्पृशति - मन्त्रस्पृग्, मन्त्रस्पृक्; सृज्यत इति कुत्-संपदादित्वात् क्विप्, अत एव निर्देशाद् ऋतो रत्वं च, “सृ गतौ” इत्यस्य वा कज् - स्रग्, स्रक्; धृष्णोतीति - दधृष्, अत एव निर्देशाद् द्वित्वम् - दधृग्, दधृक्; ऊर्ध्वं स्निह्यति नह्यति वा, अत एव 20 निर्देशाद् उदो दकारस्य लोपे सस्य षत्वं, नहेर्नकारस्य च ष्णिरादेशः - उष्णिग्, उष्णिक्; ऋत्विग्भ्याम्, दिग्भ्याम्, घृतस्पृग्भ्याम्, स्रग्भ्याम्, दधृग्भ्याम्, उष्णिग्भ्याम् । पदान्त इत्येव - ऋत्विजौ, दिशौ, दृशौ, घृतस्पृशौ, स्रजौ, दधृषौ, उष्णौ ।। ६६ ।। "25 न्या० स० -- ऋत्विज्० । ऋत्विगिति - प्रयोजनं प्रवर्त्तको यस्येति वाक्ये " मयूर ० ' [ ३. १. ११६. ] इति प्रयोजनशब्दलोप:, अत एव निपातनाद् वा ऋतुप्रयोजन इति अर्थकथनं वा, तत्र पक्षे ऋतुना हेतुभूतेन यजत इत्यर्थः । ननु 'ऋत्विग् - दिग् ग्' इति गान्ता निपाताः क्रियन्तां, किं गविधानेन ? सत्यम् - गनिपातने गत्वसंनियोगशिष्टतैव ज्ञायेत, ततो व्यावृत्तौ दषौ, उष्णिहाविति न स्याताम्, गत्वे तु विहिते निपातनं सर्वत्र भवति, गत्वं तु पदान्त एव भवतीति । स्रगिति - सरति मस्तकादिकमिति "ऋधि पृथि० " [ उणा० ८७४.]30
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy