________________
१५८ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० १. सू० ३१.]
निरूपयति; ज्ञानं तुभ्यं दीयमानं निध्यायति, ज्ञानं मह्य दीयमानं निध्यायति; ' जनो युष्माकं चित्तमुपलक्षयति, जनोऽस्माकं चित्तमुपलक्षयति; जनो युवयोः । कार्य संपश्यति, जन आवयोः कार्य संपश्यति ; गुरुस्तव कार्यमालोचयति, गुरुर्मम कार्यमालोचयति ; सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । दृश्यर्थं रिति किम् ? जनो वो मन्यते, जनो नो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति, 5 जनो नः पश्यति; जनो वामीक्षते, जनो नावीक्षते; जनस्त्वा लोकयति, जनो मा लोकयति; सर्वत्र चक्षुषा पश्यतीत्यर्थः ।। ३० ।।
न्या० स०-दश्यर्थं रित्यादि । दश्यर्थः अत्रार्थे स्वरूपे वा किः, तत्र यदार्थे तदा दृशिरर्थो येषाम्, स्वरूपे तु दृशेरों दर्शनमालोचनं येषां धातूनाम् । जनो वो मन्यते इति-नाऽयं दृश्यर्थः, दृश्यर्थो नाम यश्चक्षुःसाधने विज्ञाने वर्तते, अतो न निषेध10 इति ।। ३० ॥
नित्यमन्वादेशे ॥ २. १. ३१ ॥
कथितानुकथनमन्वादेशः, कस्यचिद् वस्तुनः किञ्चित् क्रियादिकं विधातुं कथितस्य तेनान्येन वा शब्देन पुनरन्यद् विधातुं कथनमित्यर्थः, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोर्यदुक्त वस्नसादि तन्नित्यं भवति । यूयं विनीतास्तद्15 वो गुरवो मानयन्ति, वयं विनीतास्तन्नो गुरवो मानयन्ति; युवां शीलवन्तौ तद् वां गुरवो मानयन्ति, आवां शीलवन्तौ तन्नौ गुरवो मानयन्ति; त्वं विद्वानथो ते क्षमाश्रमणैर्ज्ञानं दीयते, अहं विद्वानथो मे क्षमाश्रमणैर्ज्ञानं दीयते; धनवांस्त्वमथो त्वा लोको मानयति, धनवानहमथो मा लोको मानयति ।। ३१ ॥
___ न्या० स०-नित्यमित्यादि । नन्वत्र निषेधाधिकारे कथमिदं विधायकमभूत् ? सत्यम्-नित्यनिषेधाधिकारे यन्नित्यग्रहणं तदेवं बोधयति-विधानसूत्रमिदमिति । न चेदं वाच्यम्-अत्र नित्यग्रहणाभावे "पदाद्" [२. १. २१.] इति सूत्रे कथं विकल्प इति, तदा हि तत्रैव नवेति कुर्यादिति । कस्यचिद् द्रव्यस्य काञ्चित् क्रियां जाति गुणं द्रव्यं वा प्रतिपादयितु कथितस्य तेन तदितरेण वा शब्देन पौनरुक्त्यं मा भूदिति विशेषान्तरं25 प्रतिपादयितु पुनः कथनमन्वादेश इति यावत्, तेनान्येन वेति-युष्मदस्मच्छब्दाभ्यां कृत्वा विनीतत्वादिकं विधाय पुनयुष्मदस्मद्भयां गुरुमाननादिकं विधीयते, अत्र सूत्रे तेनैव शब्देन कथनमस्ति, अन्येन तु कथनमुत्तरत्रैव ज्ञेयम् । पुनरन्यद विधातमिति-पूनःशब्दोपादानात
20