SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३४ ] स्वम्प; अत्याम्पि, बह्वपि ।। ८६ ।। बृहद्वृत्ति - लघुन्याससंवलिते [पा० ४. सू० ६०-६१.] समासान्तविधेरनित्यत्वात् बह्वाम्पि प्रत्यम्पि; अभ्वादेरत्वसः सौ ॥ १. ४. ६० ॥ अत्वन्तस्यासन्तस्य च भ्वादिवजितस्य संबन्धिनः स्वरस्य शेषे सौ परे दीर्घो भवति । तु भवान् कृतवान्, गोमान् यवमान्, एतावान्; अस् - 5 अप्सराः, अङ्गिराः, चन्द्रमाः, स्थूलशिराः सुमनाः । प्रभ्वादेरिति किम् ? पिण्डं ग्रसते - पिण्डग्रः, चर्म वस्ते - चर्मवः । प्रर्थवद्ग्रहणे नानर्थकस्य इत्येव सिद्धे अभ्वादेरिति वचनम् प्रनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति इति न्यायज्ञापनार्थम्, तेनात्रापि भवति - खरणाः, खुरणाः । अधातोरित्यकृत्वाऽभ्वादेरिति करणं भ्वादीनामेव वर्जनार्थम्, तेनेह 10 भवति - गोमन्तमिच्छति क्यन् क्विप् गोमान् एवम् - स्थूलशिराः । शेष इत्येव ? हे भवन् !, हे सुमनः ! । 'ऋतु' इति उदितकरणादृदितो न भवति - पचन्, जरन् ।। ६० ।। न्या० स० - श्रभ्वादेरित्यादि । भवानिति - नोऽन्ते सत्यपि श्रागमोऽनुपघातेन इति न्यायाद्भवत्येव दीर्घः ।। ६० ।। कुशस्तुनस्तृच् पुंसि ॥। १. ४. ६१ ॥ क्रुशः परो यस्तुन् तस्य शेषे घुटि परे तृजादेशो भवति, पुंसि - पुंलिङ्गविषये । क्रोष्टा, क्रोष्टारौ, क्रोष्टारः, क्रोष्टारम्, क्रोष्टारौ, अतिक्रोष्टा, प्रियक्रोष्टा । बहुव्रीहौ *प्रसिद्धं बहिरङ्गमन्तरङ्ग इति ऋदिल्लक्षणः कच् न भवति । पुंसीत्येव ? कृशक्रोष्टूनि वनानि । घुटीत्येव ? क्रोष्टून् । शेष 20 इत्येव ? हे क्रोष्टो ! । " क्रोष्टोः क्रोष्टु" इत्यकृत्वा तृज्वचनं तृस्वस्त्रादिसूत्रेणाऽऽरर्थम् ।। ६१ ।। न्या० स० - कुशस्तुन इत्यादि - तृजादेश इति - प्रदेश इत्युक्त सकलस्यापि तुनस्तृजादेशो भवति तथा चोक्तम् 15 “एकस्यावयवस्य यो भवति स प्रोक्तो विकारो बुधैरादेशस्त्वसभूरिव प्रकटितः सर्वोपमर्दात्मकः " ॥ 25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy