SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सिद्धान्त-लक्षण-जागदीशी। जागदीशी तया प्रतिबन्धकताच्छेदको यः सम्बन्धस्तेन हेत्वधिकरणवृतित्वमभावस्य विवक्षितमित्यदोषः, तथा च द्रव्यत्वाभाववान् जातित्वादित्यादौ विशेषणताविशेषसम्बन्धेन जातित्वाभावबुद्धेविषयविधया प्रतिबन्धकतावच्छेदको यः स्वरूपसम्बन्धः तेन जातित्वस्वरूपाभावस्य [तत्र] प्रसिद्धत्वादिति भावः । वितिः च्छिन्नप्रकारताशालितदभावप्रतियोगिमानित्याकारकबुद्धेरित्यर्थः । विषयतया = प्रकारतया, प्रतिबन्धकतेति । प्रतिबन्धकतावच्छेदकप्रकारतावच्छेदको यः सम्बन्ध इत्यर्थः । तेन = तेन सम्बन्धन, तथा च तत्तदभावप्रतियोगितावच्छेदकावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूता या प्रकारता तदवच्छेदकसम्बन्धेन हेत्वधिकरणटत्तित्वमभावस्य वक्तव्यमिति समुदितार्थः। पूर्वोक्तातिव्याप्तिद्वयं निरस्यति-तथा चेति । एवञ्च द्रव्यत्वाभाववान् जातित्वादित्यत्र हेतुभूतजात्यधिकरणे वर्तमानो यो जातित्वाभावाभावः, तत्प्रतियोगी यो जातित्वाभावः, साध्यतावच्छेदकस्वरूपसम्बन्धेन तद्वत्ताबुद्धौ ‘स्वरूपेणैव जातित्ववानिति ज्ञानस्य प्रतिबन्धकतया तत्प्रतिबन्धकतावच्छेदकीभूता या जातित्वनिष्ठा प्रकारता, तदवच्छेदकस्वरूपसम्बन्धेन हेत्वधिकरणे जातित्वाभावाभावस्य जातित्वस्वरूपस्य विद्यमानत्वाल्लक्षणसमन्वयः सम्भवति, सत्तावान् जातेरित्यत्र सत्ताभावो न लक्षणघटकः, समवायेन सत्ताभाव-प्रतियोगि-सत्तावत्त्वबुद्धौ स्वरूपेण सत्ताभाववत्ताज्ञानस्य प्रतिबन्धकतया तदवच्छेदकसत्ताभावनिष्ठप्रकारतावच्छेदको यः स्वरूपसम्बन्धस्तेन सम्बन्धेन जात्यधिकरणे सत्ताभावस्यावर्त्तमानत्वात् , एवं कालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाभावाभाववान् गगनत्वादित्यत्रापि साध्याभावो न लक्षणघटकः, तदभावप्रतियोगिसाध्यवत्ताबुद्धेः प्रतिबन्धकताव. च्छेदककालिकसम्बन्धेन गगने वृत्तित्वाप्रसिद्धः, अतः स्वपदेन गगनत्वाभावाभावमादाय तत्प्रतियोगिगगनत्वाभावबुद्धौ ‘स्वरूपेण गगनत्ववानि'त्याकारकज्ञानस्य प्रतिबन्धकतया तदवच्छेदकीभूता या गगनत्वनिष्ठा प्रकारता तदवच्छेदकस्वरूप. सम्बन्धेन गगने हेत्वधिकरणे गगनत्वरूपाभावस्य सत्त्वाल्लक्षणसमन्वयसम्भवान्न कोऽपि दोष इत्यवधेयम्।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy