________________
सिद्धान्त- लक्षण - जागदोशी ।
दीधितिः
सर्वथैव व्याप्यवृत्तिसाध्यके, साध्य-साधनभेदेन व्याप्तिभेदात् ' - इति वदन्ति ॥ ५ ॥
७२
जगदीशी
त्वेनाव्याप्यवृत्तेरपि संयोगस्य समवेतत्वेन साध्यतायां, कालिकतयाऽव्याप्यवृत्तेरपि द्रव्यत्वस्य समवायेन साध्यतायाव ' - प्रतियोगिवैयधिकरण्यं - ' नोपादेयमिति ।
परन्तु समवायेन व्याप्यवृत्तेरपि द्रव्यत्वसत्त्वादेः कालिकेन साध्यतायां तदुपादेयमेव ।
अव्याप्यवृत्तिसाध्य के [ वृक्षः संयोग्येतद्वचत्वादित्यादौ देयं ] संयोगाभाववान् नित्यगुणत्वादित्यादौ क्वचिदेव न देयं, व्याप्यवृत्तिसाध्यके तु प्रयोजनविरहात् सर्वत्रैव नोपादेयमित्यावेदयितुं व्याप्यवृत्ति
साध्यके' सर्वथैवे त्युक्तम् । * साध्यसाधनभेदेनेति
साध्यताघटकसम्बन्धादेरप्युपलक्षकम् ।
विटतिः
'येन सम्बन्धेनेत्यस्य फलमाह- कालिकतयेति । तथा च द्रव्यत्ववान् घटत्वादित्यत्र समवायेन द्रव्यत्वस्य साध्यतायां 'प्रतियोगिवैयधिकरण्यं' नोपादेयं, समवायेन द्रव्यत्वाभावस्य घटेऽसत्त्वात्, किन्तु कालिकेन द्रव्यत्वसाध्यतास्थले निरुक्तघटत्वहेतौ हेत्वधिकरणे घटे गुणावच्छेदेन कालिकसम्बन्धावच्छिन्नद्रव्यत्वाभावस्य सत्त्वादव्याप्तिवारणाय 'प्रतियोगिवैयधिकरण्यं' देयमेव, एतदेवाभिप्रेत्याभिहितं -कालिकेन साध्यतायां तदुपादेयमेवेति ।
'सर्वथा' पदप्रयोजनमाह - व्याप्यवृत्तिसाध्यक इति । प्रयोजनविरहादिति । साध्याभावस्य हेत्वधिकरणेऽसत्त्वाद्वयाप्यवृत्तिसाध्यकेऽव्याप्तिविरहेण प्रतियोगिवैयधिकरण्यात्मकविशेषणस्य किमपि प्रयोजनं नास्तीत्याशयः । न देयमिति । संयोगाभावाभावस्य - संयोगरूपस्य - साध्याभावस्य – नित्यगुणे केनापि सम्बन्धेनासत्त्वादभावान्तरमादाय लक्षणसमन्वयसम्भवात्संयोगाभावरूपाव्याप्यवृत्तिसाध्य कनित्यगुणत्वहेतुकस्थले हेत्वधिकरणवृत्त्यभावे 'प्रतियोगिवैयधिकरण्यं' निष्फलमित्याशयः ।
•
१ 'व्याप्यवृत्तिसाध्यके' इति काशीमुद्रिते नोपलभ्यते । २ 'उपलक्षण 'मिति बहुषु पाठ उपलभ्यते ।