SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विवृति- दीपिकालङ्कृता । दीधितिः एकावच्छेदेन यावद्विशेषाभाववत्त्वस्योपाधित्वाच्च । जगदीशी प्राचां मते यत्तदर्थयोरनुगतत्वादाह, ' - एकावच्छेदेनेति इदमुपाधेः साधनाव्यापकत्वरक्षायै । न चैवं तत्तत्संयोगाभावस्य गुणे व्याप्यवृत्तित्वादेकावच्छेदेन साध्यव्यापकत्वं दुर्घटमिति वाच्यम्; 'एकावच्छेदेन' इत्यनेन निरवच्छिन्नवृत्तिकत्वविशिष्टस्य विवचितत्वात् । 27. विवृतिः तथा च यत्तदोस्तत्तद्व्यक्तिपर्यवसायितया यत्किञ्चिदेकव्यक्तेरुपादानेऽपरस्या असङ्गहादनुगतव्याप्तिरेव न सम्भवतीति भावः । एकावच्छेदेनेत्यादिदीधितिग्रन्थोत्थितिबीजं दर्शयति- प्राचामिति । यत्तदर्थयोरनुगतत्वेति । तथा च तदादीनां बुद्धिविषयतावच्छेदकत्वो पलक्षितधर्मावच्छिन्नार्थकतया न यत्तत्पदोपादानेऽपि व्याप्तेरननुगम इति भावः । इदम् = 'एकावच्छेदेने' व्यादिविशेषणदानं, उपाधेः : संयोगीययावद्विशेषाभावस्य साधनाव्यापकत्वेति । तथा 'चैकावच्छेदेने'• त्यस्यानुपादाने संयोगीययावद्विशेषाभाववत्वस्यैवोपाधितया तस्य च हेतुस्वरूपत्वेन हेतुव्यापकत्वात् स्वस्य स्वव्यापकतायामविवादाद्धेत्वव्यापकत्वमुपाधौ न घटतेऽत 'एकावच्छेदेने' स्यस्योपादानमिति भावः । एवञ्च संयोगसामान्याभावस्य गुणादावुभयवादिसिद्धतया तत्र च गुणत्वरूपैकावच्छेदेन संयोगीययावद्विशेषाभावस्य सत्त्वान्निरुक्तोपाधेः साध्यव्यापकत्वम् । संयोगीययावद्विशेषाभाववत्त्वस्य हेतोर्वृक्षे उभयवादिसिद्धतया तत्र वैकावच्छेदेन संयोगीययावद्विशेषाभाववत्त्वासत्त्वादेकावच्छेदेन संयोगीययावद्विशेषाभाववत्त्वस्य हेत्वव्यापकत्वं सुलभमिति तस्योपाधित्वमावश्यकमित्यवधेयम् । न चेति । वाच्यमिति परेणान्वयः । गुणे व्याप्यवृत्तित्वात् = गुणे निरवच्छिन्नवृत्तित्वात् तथा चैकावच्छिन्न संयोगीययावद्विशेषाभावस्य साध्यवति गुणेऽसत्त्वान्निरुक्तोपाधेर्न साध्यव्यापकत्वमिति शङ्कितुरभि - - प्रायः । निरवच्छिन्नेति । किञ्चिदनवच्छिन्नवृत्तिकत्वविशिष्टस्य संयोगीययावद्विशेषाभाववत्त्वस्योपाधित्वेन विवक्षिततया तस्य च संयोगसामान्याभाववति गुणे सत्त्वे बाधकाभावाद्भवत्युपाधेः साध्यव्यापकत्वमित्याशयः । : M : 2 પૂર્ણ ननु 'यत्र यज्जात्यवच्छिन्नाभावस्तत्र निरवच्छिन्न वृत्ति कत्त्वविशिष्टतजाति समानाधिकरणोभयावृत्तिधर्मावच्छिन्नप्रतियोगिताकयावदभाव' इत्येवं साध्योपाध्योर्व्यापकत्वमवश्यं वाच्यं तच्च न सम्भवति, कपिसंयोगत्वरूपजात्यवच्छिन्नाभावस्य वृक्षे सर्वसम्मततया तत्र च निरवच्छिन्नवृत्तिकत्वविशिष्टस्य कपिसंयोगत्वसमाना 9 १ 'प्राचीनमते यत्त्व-तत्त्वयोरनुगमादाहेति प्रामाणिक पुस्तकपाठः ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy