SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३८ सिद्धान्त-लक्षण-जागदीशी। दीधितिः सामानाधिकरण्यव्यक्तीनां भेदेऽपि निरूपकतावच्छेदकस्य अधिकरणतावच्छेदकस्य चैक्यान्याप्तेरैक्यम् । ... .. जागदीशी साध्य-साधनभेदेन व्याप्तेर्भेदात् यत्र साधनतावच्छेदकं नाधिकरणतावच्छेदकं तत्र तदाश्रयसमानाधिकरणत्वमेव निवेश्यमित्यपि वदन्ति ।।३।। ननु सामानाधिकरण्यस्य व्याप्तित्वे तस्य प्रति धूमं भिन्नत्वेन 'धूमसामान्ये वह्निसामान्यस्यैका व्याप्ति'रिति व्यवहारोऽनुपपन्न इत्यत आह*सामानाधिकरण्येति-तथा च वह्नित्व-धूमत्वाद्यनुगमादेव तत्र व्याप्तेरैक्यव्यवहारो न तु वस्तुगत्या व्याप्तेरैक्यमिति भावः । नन्वेवं (सामान्य विवृतिः “यत्र हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नाधिकरणत्वमप्रसिद्धं,-यथा वह्निमान्धूमादित्यत्र धूमत्वावच्छिन्नाधिकरणत्वमप्रसिद्धं-तत्र हेतुतावच्छेदकाश्रयाधिकरणवृत्तित्वमेवाभावविशेषणं, यत्र तु हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नाधिकरणत्वं प्रसिध्यति, यथा द्रव्यं विशिष्टसत्त्वादित्यत्र वैशिष्ट्य-सत्तावावच्छिन्नाधिकरणता प्रसिद्धा,-तत्र हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नाधिकरणवृत्तित्वमेवाभावे निवेश्यमन्यथा केवलसत्ताधिकरणमादाय तत्राव्याप्तिप्रसङ्गः स्यादिति” केषांचिन्मतं प्रदर्शयति-साध्य-साधनभेदेनेति ।वदन्ती. त्यस्वरससूचनाय, तद्बीजन्तु-तादृशोभयत्रैव पूर्वोत्तरीत्या पारिभाषिकाधिकरणत्वमादाय लक्षणसमन्वयसम्भवे साध्यसाधनभेदेन पृथक्पृथनिवेशस्य निष्प्रयोजनत्वमेवेति ध्येयम् ॥३॥ __ 'सामानाधिकरण्यव्यक्तीनामिति दीधितिग्रन्थमुत्थापयति-नन्विति । दीधितौ-सामानाधिकरण्यव्यक्तीनामिति । तत्तद्धमनिष्ठतत्तद्वह्नि सामानाधिकरण्यव्यक्तीनामित्यर्थः । निरूपकतावच्छेदकस्य = सामानाधिकरण्यनिरूपकतावच्छेदकस्य-वह्नित्वादेः, अधिकरणतावच्छेदकस्य-तादृशसामानाधिकरण्याधिकरणतावच्छेदकस्य-धूमत्वादेः । ननु तयोरैक्यात्कथं व्याप्तेरैक्यमित्यतो भावमाह-तथा चेति । एवञ्च पारमार्थिकं व्याप्तेरैक्यं नास्तीति भावः । नन्विति । महानसीयधूमनिष्ठमहानसीयवह्विसामानाधिकरण्यप्रत्यक्षानन्तर सामानाधिकरण्यत्वेन निखिलसामानाधिकरण्यप्रत्यक्षे पर्वतीयवह्निधूमसामानाधिक
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy