SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ २३६ सिद्धान्त-लक्षण-जागदोशी । .. दीधितिः सामानाधिकरण्येऽपि सम्बन्धः,-संयोगत्वादिनैव निविशते । दर्शितश्च नियमाघटितमपि सम्बन्धत्वम् । जागदीशी हेतुमन्निष्ठाभावीयत्वप्रकारेणैव वा तत्प्रवेशादिति भावः । * संयोगत्वादिनैवेति । ननु प्रतियोगितात्वमपि स्वरूपसम्बन्ध एवेत्युक्तदोषतादवस्थ्य म् ; किञ्च वृत्यनियामकसम्बन्धेन हेतुतास्थले, तेन सम्बन्धेन हेतुसम्बन्धित्वस्याऽवश्यं प्रवेश एवेत्यतः सम्बन्धत्वेन निवेशेऽपि न क्षतिरित्याशयेनाह, ॐदर्शितश्चेति ।-विशेष्य-विशेषणत्वान्यविशिष्टधीविषयत्वमेव सम्बन्धत्वमिति भावः । . विटतिः रूपेण प्रतियोगिताप्रवेशस्यावश्यकत्वमाह-हेतुमनिष्ठेति । ननु वह्विसामानाधिकरण्यं यदि संयोगसम्बन्धेन वह्वयधिकरणे तेनैव सम्बन्धेन वृत्तित्वं, तदा सम्बन्धत्वप्रवेशात्पुनरात्माश्रय इत्यत आह-दोधितौ-सामानाधिकरण्येऽपीति । 'संयोगत्वादिने'त्यादिना समवायत्वादिपरिग्रहः। __ नियमाघटितसम्बन्धत्वप्रवेशे बीजमाह--नन्विति । उक्तदोषतादवस्थ्यम् , आत्माश्रयतादवस्थ्यम् । ननु प्रतियोगितात्वमपि स्वरूपसम्बन्धविशेष एव न तु सम्बन्धत्वेनापि तस्य प्रवेश इति,-कथामात्माश्रय इत्यत आह-किञ्चेति। वृत्त्यनियामकसम्बन्धेनेति । स्वामित्वादिसम्बन्धेनेत्यर्थः । तथा च तादृशस्थले तेन सम्बन्धेनाधिकरणादेरप्रसिद्धया साध्यसम्बन्धित्वस्यैव साध्यसामानाधिकरण्यस्वरूपतया सम्बन्धताया व्याप्तिघटकताध्रौव्य आत्माश्रयप्रसङ्गस्य कथामात्रेण वारयितुमशक्यत्वादिति भावः । विशेष्यत्वेति । विशेष्यत्वभिन्ना सती, विशेषणत्वमिना च सती, या विशिष्टबुद्धि दीपिका दिति वाच्यं, स्वावच्छेदकाऽवच्छिन्नाऽनधिकरणत्वस्य विवक्षितत्वात् । भवन्मतेऽपि,'यादृशप्रतियोगिताऽवच्छेदकाऽनधिकरण'मित्यत्र यादृशप्रतियोगिताऽवच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिनिरूपकताकाऽधिकरणत्वाऽभावः प्रवेश्यः, अन्यथा 'विशिष्ट सत्तावाजात रित्यत्र केवलसत्तात्वावच्छिमाऽधिकरणतामादायातिव्याप्तिः,
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy