SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ विवृति- दीपिकालङ्कृता । दीधितिः - 'वह्नि धूमोभयवान् वह्ने' रित्यादौ संयोगस्य द्वित्वावच्छिन्न प्रतियोगित्वविरहेऽपि च, - - नातिव्याप्ति” रित्यपि वदन्ति ॥ २० ॥ जगदीशी २३३ यद्यपि संयोगमात्रस्यैव द्वित्वावच्छिन्नप्रतियोगिकत्वविरहाद्वह्नि'धूमोभयत्वावच्छिन्नाभावमादायैव नातिव्याप्तिसम्भावना, —तथाऽपि 'वह्नि-धूमोभयवान् वह्ने' रित्यादौ संयोगस्य द्वित्वावच्छिन्नप्रतियोगिकत्वविरहेऽपि समवायस्यैकत्वेन द्रव्यत्वप्रतियोगिकत्व - गुणानुयोगिकत्वोभयवत्त्वेन 'द्रव्यं जाते' रित्यादौ नातिव्याप्तिरिति - योजना । विरहेsपि चेति । - " चकारस्तु प्रामादिक" - इति प्राञ्चः । विवृतिः सम्भवादित्याशङ्कय - प्राचीनमतसिद्धं समाधानमाह - तथाऽपीति । तथा च - तादृशसंयोगसामान्ये तादृशोभयत्वावच्छिन्नप्रतियोगिकत्वविरहेणो भयाभावसत्त्वात्साध्याभावस्य लक्षणघटकतया यद्यपि 'वह्निधूमोभय वान्वह्ने' रित्यत्र पूर्वलक्षणे नातिव्याप्तिसम्भावना, तथाऽपि 'द्रव्यं जाते' रित्यत्र समवायस्यैकत्वमते द्रव्यत्वप्रतियोगिकत्व — हेत्वधिकरणगुणानुयोगिकत्वयोर्द्वयोः सत्त्वेन द्रव्यत्वाभावरूपसाध्यालक्षणाघटकत्वात्पूर्वलक्षणेऽतिव्याप्तिरतः – प्रतियोगिताधर्मिको भयाभाव- घटितलक्षणानुसरणे न तत्रातिव्याप्तिरिति भावः । भावस्य ननु द्वित्वावच्छिन्नप्रतियोगि कत्वविरहे 'ऽपि चे 'ति चकारेणोभयत्रैव पूर्वलक्षणेऽतिव्याप्तेः सूचितत्वादिदमसङ्गतमित्यत आह- चकारस्त्विति । तथा चोक्तस्थले चकारः सम्पातायात इति भावः । दीपिका 'प्रमेयवान् वाच्यत्वा' दित्यादौ घटाधिकरणत्वाऽभावीयप्रतियोगितायां प्रमेयत्वाच्छिन्नं यदाऽऽधेयत्वं तन्निरूपकत्व, स्वरूपसम्बन्धाऽवच्छिन्नाऽवच्छेदकता कत्वोभयस्य सत्त्वात् । एवं—तत्रैव समवायेन प्रमेयवतः संयोगेनाऽभावमादाय तत्प्रतियोगितायां प्रमेयत्वावच्छिन्नाऽवच्छेदकताकश्व, स्वरूपसम्बन्धाऽवच्छिन्नं यत्प्रतियोगितात्वविष्ठमाधेयत्वं तन्निरूपकृत्वैतदुभयस्य सत्त्वात् ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy