SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कृता । दीधितिः समवायसम्बन्धेन मेयसामान्याभावस्य सामान्यादौ सच्चान्मेयत्वादेरप्यभावप्रतियोगितावच्छेदकत्वं सुलभम्, जगदीशी २३१ अन्यथा प्रकारित्व- प्रतियोगित्वसाधारणैकावच्छेद्यत्वविरहेण व्यभिचारिण्यतिव्याप्त्यापत्तेः, [ 'विषयितया प्रमेयत्वविशिष्टस्य ज्ञानादेरभावप्रतियोगितायां प्रमेयत्वावच्छिन्नत्वस्य प्रसिद्धावपि स्वरूपसम्बन्धेन साध्यतावच्छेदकतावच्छेदकेन तदवच्छिन्नत्वस्याप्रसिद्धेः – ] अत आह— समवायेति । " ननु स्वरूपसम्बन्धेन गगनादेर्वृत्तिमत्त्वेऽपि – प्रकृतसाध्यीय साध्यतावच्छेदकसम्बन्धसामान्ये, — तादृशो भयाभावविवक्षयैव सर्वसामञ्जस्ये कृतं विवक्षान्तरेण, ? विवृतिः एकावच्छेद्यतेति । प्रत्येकनिष्ठा वच्छिन्नत्वस्य भिन्नत्वेनेति भावः । विषयितया प्रमेयत्ववज्ज्ञानाभावस्य प्रतियोगितायां, प्रमेयत्वावच्छिन्नत्वसवेऽपि साध्यतावच्छेदकस्वरूप सम्बन्धावच्छिन्नत्वस्य न तत्र प्रसिद्धिरित्याह- विषयितया चेति । दीधितौ- सुलभमिति । तथा च 'प्रमेयवान् वाच्यत्वा' दित्यत्र समवायेन प्रमेयाभावप्रतियोगितायां प्रसिद्धस्य प्रमेयत्वावच्छिन्नत्वस्य स्वरूपेण गगनत्वाभावीय प्रतियोगितायां च प्रसिद्धस्य स्वरूप सम्बन्धावच्छिन्नत्वस्य हेतुमन्निष्ठघटाद्यभावप्रतियोगितायामभावसत्त्वालक्षणसमन्वय इति भावः । सम्बन्धधर्मिकोभयाभावघटितलक्षणे' ऽतपवे' त्यादिना दोषान्तरप्रदानप्रयोजनमाह - नन्विति । स्वरूपसम्बन्धेनेति । कालिकसम्बन्धेनेत्यर्थः । तथाच गगनादेः कालिकसम्बन्धेन महाकालवृत्तित्वेऽपि घटप्रतियोगिककालिकसम्बन्धे पटत्वावच्छिन्नप्रतियोगिकत्वविरहेणोभयाभावसत्त्वात्पटाभावस्यैव पूर्वोक्तरीत्या 'घटवान्महाकालत्वा' दित्यत्र प्रतियोगिवैयधिकरण्यसम्भवेन पूर्वलक्षणस्यैव सम्यक्कया लक्षणान्तरानुसरणं निरर्थकमिति भावः । ननु कालिकेन प्रमेयसाध्यकमहाकालत्व हेतुकस्थले निरुक्तरीत्या प्रतियोगि १ अयं पाठो बहुषु पुस्तकेषु नास्ति । '
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy