SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ सिद्धान्त- लक्षण - जागदोशी । दीधितिः समवायेन जातेः साध्यत्वे मेयत्वादावतिव्याप्तिः, - - जातिमन्निष्ठतादृशाभावप्रतियोगिताया जातित्वेनानवच्छेदात, —जातिशून्ये च तादृशसम्बन्धेन वृत्तेरप्रसिद्धेः, जगदीशी १६६ ननु तादृश- सम्बन्धावच्छिन्न-यत्किश्चिद्धेत्वधिकरण-निष्ठाधिकरणतानिरूपकतानवच्छेदक [स्व] प्रतियोगितावच्छेदककत्वं 'सामान्यकान्त' पदेन विवक्षितमतो नोक्तदोष इत्यत आह- समवायेनेति । ननु समवायेन जातेर्व्याप्यवृत्तित्वात्तत्साध्य के प्रतियोगिवैयधिकरण्यमेव न देयं, - — देयश्चाऽव्याप्यवृत्तिसाध्यकस्थलीयनिरुक्तौ साध्यतावच्छेदके, - विवृतिः दोषान्तरानुसरणबीजमाह - नन्विति । तादृशेति । यत्किञ्चिद्धत्वधिकरणनिष्ठाधिकरणतानिरूपितसाध्यतावच्छेदकसम्बन्धावच्छिन्नवृत्तितानवच्छेदकं यदभावप्रतियोगितावच्छेदकं तदभावस्यैव प्रतियोगिवैयधिकरण्यमिति 'यत्किञ्चि' दित्यनेन विवक्षितमित्यर्थः । नोदोष इति । विशिष्टसत्ताभावप्रतियोगितावच्छेदकस्य विशिष्टसत्तात्वस्य त्वधिकरणगुणनिष्ठाधिकरणतानिरूपितसमवायावच्छिन्नवृत्तितानवच्छेदकत्वाद् वि शिष्टसत्ताभावस्य लक्षणघटकत्वेन 'विशिष्टसत्तावान् जाते' रित्यत्र नातिप्रसङ्ग इत्यर्थः । समवायेन जातिसाध्यकमेयत्वहेतौ यत्किञ्चित्वधिकरणं यदि द्रव्यादिकं तदा,—तन्निरूपितसमवायावच्छिन्नवृत्तितावच्छेदकमेव जात्यभावप्रतियोगितावच्छेदकं जातित्वं यदि च सामान्यादिकं तादृशहेत्वधिकरणं, - तदा तन्निरूपितसमवायावच्छिन्नवृत्तित्वाप्रसिद्धिः स्यादतो, – यत्किञ्चिद्धेस्वधिकरणद्रव्यादिनिरूपितसमवायावच्छिन्नवृत्तितानवच्छेदकत्वस्य घटाभावप्रतियोगितावच्छेदके घटत्वे सत्त्वेन, - भावमादायातिव्याप्त्यापत्तिरित्याशयः । -घटा. पुनः स्थलान्तरे ऽतिव्याप्तिदानप्रयोजनमाह, - नन्विति । ननु निरुक्तप्रतियोगिव्यधिकरण हेतु सामानाधिकरणघटाभावप्रतियोगितानवच्छेदकत्वस्य जातित्वे सत्त्वात् प्रतियोगिवैयधिकरण्यघटितलक्षणस्य 'जातिमान्मेयत्वादिनातिव्याप्तिर्दुर्वात्यत आह-देयश्च ेति । तथा च तादृशघटाद्यभावप्रतियोगितानवच्छेदकत्वस्य जातित्व रूपे साध्यतावच्छेदकत्वे सत्वेऽपि - व्याप्यवृत्तितानवच्छेदक
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy