SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्कता। १७६ दीधितिः -विशेषणताविशेषण जागदीशी स्वरूपसम्बन्धेन हेतुतालाभाय,–'धर्म'-पदम्, -अन्यथा कालिकादिसम्बन्धेन महाकालत्वाद्यधिकरणघटादौ प्रतियोगि-व्यधिकरणातीत-तत्तद्वयक्तित्वावच्छिन्नाऽभावप्रसिद्ध्या नाव्याप्तिरिति ध्येयम् । तादृशधर्मस्य महाकालत्वादेः समवायादिना व्यापकत्वं संयोगाद्यव्याप्यवृत्तेः सुघटमित्यत उक्त, विशेषणतेति। कालिकविशेषणतेत्यर्थः । विवृतिः _ 'धर्म'पदप्रयोजनमाह-स्वरूपसम्बन्धेनेति । अन्यथेति । स्वरूपसम्बन्धेन निरुक्तधर्मस्य-महाकालत्वस्य-हेतुत्वानभ्युपगम इत्यर्थः । तत्तव्यक्तित्वावच्छिन्नेति । विषयित्व-विषयत्वान्यसम्बन्धेन विभिनकालीनयोराधाराधेयभाषानभ्युपगमादिति भावः । हेतुघटकप्रत्येकपदानां व्यावृत्तिमुक्त्वा,-साध्यघटकप्रत्येकपदानां व्यावृत्ति प्रद. शयितुं,-प्रथमं प्रथमोपस्थित विशेषणताविशेष'पदव्यावृत्तिमाह ताडशधर्मस्येति। पृथिव्यादिचतुव्यातिरिक्तद्रव्यात्मककालमात्रवृत्तिधर्मस्ये. त्यर्थः । समवायादिनेति । आदिपदात्स्वरूपादिपरिग्रहः। 'संयोगाद्यव्याप्यवृत्ते'रित्यत्राप्यादिपदं संयोगाभावसङ्गाहकम् , एवञ्च समवायेन संयोगसाध्यकमहाकालत्वहेतौ, स्वरूपेण वा संयोगाभावसाध्यकमहाकालत्वहेतौ, महाकालत्वसमानाधिकरणसमवायादिना प्रतियोगिव्यधिकरणघटायभावीयप्रतियोगितानवच्छेदकत्वस्य संयोगत्वादौ सत्त्वादव्याप्यवृत्तिसंयोगादेमहाकालत्वव्यापकत्वं सुघटं स्यादित्याशयेनाह-उक्तमिति । कालिकविशेषणतेति । तथा च कालिकेन संयोगादेः साध्यत्वे, तेन सम्बन्धेन प्रतियोगिव्यधिकरणाभावाप्रसिद्ध्या भवत्यव्याप्तिरिति भावः । दीपिका इत्थञ्च,-स्वनिष्ठनिरूपकताकाऽधिकरणतावन्निरूपितस्वप्रतियोगिमत्त्वबुद्धिविरो. धिताघटकसम्बन्धावच्छिन्नवृत्तितावदभावप्रतियोगितावच्छेदकतासम्बन्धेन 'स्ववान्ने'स्याकारकभेदस्य, स्वनिष्ठनिरूपकताकाऽधिकरणतावन्निरूपितस्वप्रतियोगितावच्छेदकावच्छिन्नाऽ
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy