SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालङ्गता । दीपिका १७७ तदा 'काल' पदवैयथ्यं स्यात् । यदि च द्रव्यविभाजकी भूतधर्मावच्छिन्नप्रतियोगिताकाष्टभेदपरं तदा घटस्वस्यापि तथात्वेन व्यापकत्वस्यापि गोत्वादौ प्रसिद्धिसम्भव इति चेदत्र के चित्प्रत्येकभेद एव तात्पर्य, 'काल'पदन्तु कालिकविशेषणतालाभायेत्याहुः । वस्तुतः — कालावृत्ति द्रव्यविभाजकधर्मावच्छिन्नप्रतियोगिताकाष्ट भेदवत्त्वं तदतिरिक्तत्वं, 'काल'पदं कालावृत्तित्वलाभायेति ध्येयम् । एवं 'धर्म' पदमपि येन सम्बन्धेन कालमात्रवृत्तित्वं तेन सम्बन्धेन हेतुता लाभाय । एवं ‘महाकालत्वं' परित्यज्यैतादृशहेत्वनुसरणं महाकालत्व- तद्यक्तित्वादिनानाधर्म संग्रहाय । १२ यत्तु 'महाकाल'पदशक्यतावच्छेदको निरुक्तकालमा त्रवृत्तिधर्म इति तदनुसरण - मिति तु न युक्तम् । " - ' चतुर्द्रव्यातिरिक्त' इति ज्यायः " - — इति जगदशिप्रन्यासङ्गतेरित्यस्मद्गुरुचरणाः । नन्वष्टद्रव्यातिरिक्तेत्यत्राव्याप्यवृत्तिधर्मत्वावच्छेदेन व्यापकत्वाभावः साधनीयः । तत्र व्यापकत्वं किं कालिकसम्बन्धेन प्रतियोगिव्यधिकरणनिरुक्तमहाकालत्व. समानाधिकरणाभावप्रतियोगित्वाऽभावरूपं ? किं वा प्रतियोगिवैयधिकरण्याघटित - निरुक्तस्व प्रतियोगिमत्ताबुद्धि विरोधिताघटक सम्बन्धेन निरुक्तमहाकालत्वसमानाधिकरणाभावप्रतियोगित्वाभावरूपं ? नाद्यः- — निरुक्तप्रतियोगित्वाभावरूपव्यापकत्वाऽप्रसिद्धेः साध्याप्रसिद्धिप्रसङ्गात्, नापि द्वितीयः - अव्याप्यवृत्तिधर्मे निरुक्त कालत्वसमानाधिकरणाभावप्रतियोगित्वाभावरूपव्यापकत्वाभावस्येष्टत्वेन सिद्धसाधनापत्तेः । न च व्यापकत्वसम्बन्धेन निरुक्तकालत्वाभावः साधनीयः, क्रियात्वादिरूपधर्मस्य तादृशव्यापकत्वरूपसम्बन्ध प्रसिद्धेः, महाकालत्वादेश्च व्यधिकरणतया तादृशः सम्बन्धः प्रसिद्ध इति न कोऽपि दोष इति वाच्यम् । निरुक्तव्यापकतासम्बन्धो यदि प्रतियोगिवैयधिकरण्यघटितस्तदा निरुक्तकाळत्वादिधर्मस्य व्यधिकरणतया प्रमेयत्वादावपि तदभावसत्त्वादव्याप्यवृत्तिपदवैयर्थ्यापत्तेः । यदि च प्रतियोगिवैयधिकरण्याघटितस्तदा निरुक्तयुक्त्या सिद्धसाधनापत्तेरिति चेत् — अत्र के चित्, – अव्याप्यवृत्तितावच्छेदकधर्म पक्षीकृत्य प्रतियोगिवैयधिकरण्य घटितव्यापकतावच्छेदकत्व, तदघटितव्यापकतावच्छेदकत्वैतदुभयसाधारणैकरूपेण संसर्गत्वमादाय निरुतकालत्वाभावः प्रवेशनीयः । तादृशकालमात्रवृत्तिधर्म
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy