SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सिद्धान्त - लक्षण - जगदीशी । दीधितिः - गोत्वत्वाद्यग्रहदशायां, - 'यत्र सास्नादिः सा गौरिति १६६ जगदीशी धर्मव्यापकत्वादेवेत्यर्थः । [ ननु ] 'इयं गौ' रित्यनुमितिर्गवेत रावृत्तित्वरूपायाः शुद्धगोत्वनिरूपितव्याप्तेर्ज्ञानात्समवायेन निरवच्छिन्नगोत्वसा - fध्यकैव भविष्यति, साध्यवदन्यावृत्तित्वरूपाया अपि व्याप्तेरनुमितिहेतुत्वस्याग्रे वाच्यत्वादतस्तादृशानुमित्यनुरोधाद्धर्मिणो धर्मव्यापकत्वस्वीकारोऽनुचित इत्यत उक्तं, – गोत्वत्वेति । - गोत्वत्वं = गवेतरावृत्तित्वं, तथा च गवेतरावृत्तित्वरूपाया गोत्वव्याप्तेरज्ञानदशायामुत्पन्नाया 'इयं गौरित्यनुमितेर्गोत्व विधेयत्वासम्भवाद्गोविधेयकत्वमेवेति, तदनुरोधादवश्यं धर्मिणो धर्मव्यापकत्वं वाच्यमिति भावः । ननु तादात्म्येन गोः साध्यत्वेऽपि - ' गोत्वं हेतुमन्निष्ठाभावप्रतियोगिताविटति: सास्नादिरिति । 'गौः सास्नाया' इत्यत्र गोत्वत्वाज्ञानकाले तादात्म्येन गव्येव सास्नाव्यापकत्वमङ्गीकर्त्तव्यमित्याशयः । सास्नादिना - सास्नादिहेतुना, 'तादात्म्येन गौः सिध्यती 'ति परेणान्वयः । तादात्म्येन गोर्व्यतिरेकात् = तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकगोभेदात् सास्नादिव्यतिरेकः = सास्नाद्यत्यन्ताभावः । , 'गोत्वत्वाद्यग्रहदशाया’मित्युक्तेर्बीजमाह = नन्विति । शुद्धगोत्वनिरूपितव्याप्तेरिति । गवेतरावृतित्वरूपव्याप्तौ गोत्वजातेरनुल्लेखादिति भावः । गोत्वसाध्यकैवेति । 'इयं गौ'रित्यनुमितिरिति पूर्वेणान्वयः । निरवच्छिन्नगोत्वनिष्ठविधेयताकैवेत्यर्थः । ननु गवेतरावृत्तित्वरूपव्याप्तिज्ञानस्यानुमितिहेतुत्वमप्रामाणिक मित्यत आहसाध्यवदन्येति । गोत्वस्य साध्यत्वे गवेतरावृत्तित्त्वस्यैव साध्यवदन्यावृत्तित्वस्वरूपत्वादित्याशयः । अग्रे = केवलान्वयिग्रन्थे; तादृशानुमित्यनुरोधात् = 'इयं गौ'रित्यनुमित्यनुरोधात्, धर्मिणः = गवादेः, धर्मव्यापकत्वस्वीकारः = सास्त्रादिव्यापकत्वस्वीकारः । 'गोत्वत्वाद्यग्रहदशाया' मित्यस्याशयमाह - तथा चेति । गोत्वविधेयकत्वेति । गोत्वविधेयकत्वप्रयोजक गोत्वनिरूपितव्याप्तिज्ञानाभावात् गोत्वविधेयकत्वासम्भवादित्यर्थः । तदनुरोधात् = तदानीन्तनोत्पन्नेयं गौरित्य नुमितेगविधे यकत्वानुरोधात् । 'आदि' पदप्रयोजनप्रदर्शनाय शङ्कते - नन्विति । गोत्वं = गोत्वरूपसाध्यताव
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy