SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विवृति-दीपिकालकता। जागदीशी प्रमेयवत्त्वान् धूमादित्यादावव्याप्तिः, साध्यतावच्छेदकेतरस्याप्रसिद्धेरिति वाच्यम्; तदितरपदेन तद्विषयित्वाव्यापकविषयिताकस्य विवक्षितत्वात्, येन रूपेण साध्यतावच्छेदकत्वं तेन रूपेण तदनवच्छिन्न विवृतिः वह्वयादेः संयोगेन सत्त्वात्सद्धतुतया तत्र साध्यतावच्छेदकेतराप्रसिद्धिनिबन्धनाऽव्यातिरित्यर्थः। साध्यतावच्छेदकेतरत्वस्य साध्यतावच्छेदकभिन्नत्वार्थकत्व एव प्रमेयवतः साध्यत्त्वे प्रमेयभिन्नत्त्वाप्रसिध्याऽव्याप्तिः सम्भवति, नान्यथेत्याशयेन समाधत्तेतदितरपदेनेति । तद्विषयित्वाव्यापकविषयिताकस्यति । साध्यतावच्छेदकविषयित्वाव्यापकीभूता या विषयिता तन्निरूपकस्य धर्मस्येत्यर्थः। तदितरपदेन= साध्यतावच्छेदकेतरपदेन, तथाच प्रमेयवत्त्वान्धूमादित्यत्र साध्यतावच्छेदकीभूतप्रमेय-विषयितायाः सर्वत्र घटपटादिज्ञाने वर्तमानतया तत्र च यथायथ घटत्वपटत्वादिविषयिताया असत्त्वात् प्रमेयविषयित्वाव्यापकत्वस्य घटत्वादिविषयितायामक्षतत्त्वाद्धटत्वादेरेव निरुक्तपारिभाषिकसाध्यतावच्छेदकेतरत्वेन धर्तुं शक्यतया नाऽप्रसिद्धिनिबन्धनाऽव्याप्तिरिति भावः । अव्यापकत्वस्य व्यापकताघटिततया निरुक्तकल्पस्य गुरुत्त्वाल्लाघवात्कल्पान्तरमाह-येनरूपेणेति । यद्पावच्छिन्ना साध्यतावच्छेदकता तद्रूपावच्छिन्नेन साध्यतावच्छेदकेनानवच्छिन्ना या प्रकारता तदवच्छेदकत्वं साध्यतावच्छेदकेतरत्वं, साध्यतावच्छेदकतावच्छेदकधर्मावच्छिन्ना या साध्यतावच्छेदकनिष्ठावच्छेदकता तदनिरूपिता या प्रकारता तदवच्छेदकधर्मस्यैव साध्यतावच्छेदकेतरपदेन विवक्षितत्वमिति तु फलितार्थः । प्रमेयवत्त्वान्धूमादित्यत्र साध्यतावच्छेदकतावच्छेदकं प्रमेयत्वं तदवच्छिन्ना या प्रमेयरूपसाध्यतावच्छेदकनिष्ठाऽवच्छेदकता तदनिरूपिता या घटवानित्यादिज्ञानीया घटादिनिष्ठा प्रकारता तदवच्छेदकघटत्वादेरेव पारिभाषिकप्रमेयेतरत्वसम्भवान्न साध्यतावच्छेदकेतराप्रसिध्याऽव्याप्तिः। घटवानितिज्ञानीयघटनिष्ठप्रकारताया घटत्वरूपप्रमेयनिष्ठावच्छेदकतानिरूपितत्वेऽपि प्रमेयत्वावच्छिन्नप्रमेयनि दीपिका एवं हेतुसमानाधिकरणप्रतियोगिव्यधिकरणाभावभिन्नाभावीयसाध्यतावच्छेदक सम्बन्धावच्छिन्नप्रतियोगित्वाश्रयसाध्यसामानाधिकरण्यं व्याप्तिरित्यादिपूर्वपक्षोऽपि सुधीभिर्विभावनीयः। .. येन रूपेणेति । ननु साध्यतावच्छेदकतावच्छेदकरूपावच्छिन्नावच्छेदकत्वानिरूपितप्रकारताश्रयस्यैव पारिभाषिकमाध्यतावच्छेदकेतरत्वमुच्यता, किं तादृशप्रकार
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy