SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १३७ विवृति-दीपिकालङ्कृता। जागदीशी तृतीये-'कपिसंयोगाभाववान् जागदीशी " -स्वावच्छेदकसम्बन्धावच्छिन्न [.स्वनिरूपकाभाव'] प्रतियोगिसामान्यानधिकरणीभूत-हेत्वधिकरण-वृत्त्यभाव-प्रतियोगितासामान्ये, 'यत्सम्बन्धावच्छिन्नत्व-यद्धर्मावच्छिन्नत्वोभयाभाव' इत्यप्रिमलक्षणाभिप्रायेणेदं, संयोगेन घटाद्यभावस्यैव प्रतियोगिवैयधिकरण्यसौलभ्या'दित्यपि-" वदन्ति ।। [तृतीये चाव्याप्तिं दर्शयति-]कपीतिप्राचां मते संयोगसामान्याभावसाध्यकमात्मत्वं विरुद्धमतः,-'कपिसंयोगसामान्यभाव' उक्तः, । वितिः प्रकारान्तरेणातिव्याप्ति सङ्गमयतां मतमाह-स्वावच्छेदकेति । स्व-प्रतियोगिता, एवमग्रेऽपि । यत्सम्बन्धावच्छिन्नत्व-यडर्मावच्छिन्नत्वोभयाभावः = साध्यतावच्छेदकसम्बन्धावच्छिन्नत्व, साध्यतावच्छेदकधर्मावच्छिन्नत्वोभयाभावः, इदं = अतिव्याप्तिदानं । सालभ्यादिति । तथा च 'संयोगेन घटो नास्ती'त्यभावीयप्रतियोगितावच्छेदकसंयोगसम्बन्धेन घटसामान्यानधिकरणहेत्वधिकरणद्रव्यनिष्ठतादृशघटाभावीयप्रतियोगितासामान्ये,-साध्यतावच्छेदकस्वरूपसम्बन्धावच्छिन्नत्व,-साध्यताव. च्छेदकद्रव्यत्वाभावत्वावच्छिन्नत्वोभयोरेवाभावसत्त्वात् घटाभावस्यैव प्रतियोगिवैयधिकरण्यसम्भवेन लक्षणसमन्वयादतिव्याप्तिरित्याशयः। ___ 'वदन्ती'त्यस्वरससूचनाय, तद्धीजन्तु-अग्रिमलक्षणाभिप्रायेणातिव्याप्तेरभिप्रेतत्वे नन्वित्याद्याशङ्काया अग्रिमाया दीधितिकृदुक्ताया निर्बीजत्वापत्तिरिति ध्येयम्। तृतीये प्रतितयोगितावच्छेदकं यत्किञ्चित्तदवच्छिन्नानधिकरणत्वस्य हेत्वधिकरणे निवेशकल्पे, विरुद्धमिति । संयोगाभावासमानाधिकरणमित्यर्थः । तथा च प्राचीनद्रव्ये संयोगसामान्याभावस्यानभ्युपगमात् संयोगसामान्याभावसाध्य. कात्मत्वस्य सर्ववादिसिद्धसद्धेतुत्वं न सम्भवति, अतः सर्ववादिसिडसद्धतुत्वप्रदर्शनाय संयोगसामान्याभावस्य साध्यत्वमुपेक्ष्य 'कपिसंयोगसामान्यामावस्य' साध्यत्वमुक्तम् । ननु वृक्षत्वहेतोरपि सद्धेतुतया तदधिकरणस्यापि कपिसंयोगरूपसाध्याभावस्य गुणस्य प्रतियोगितावच्छेदकं यद्गुणाभावत्वं तदवच्छिन्नानधिकरणत्वात् १, २. [ ] एतदन्तर्गतः पाठो हस्तलिखितपुस्तके नास्ति ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy