SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सिद्धान्त- लक्षण - जागदीशी । दीधिनिः पपादितत्वा' दित्यस्वरसात् - 'प्रतियोगिवैयधिकरण्ये' त्यादिविशेषणं वक्ष्यति, तच्च हेत्वधिकरणे बोध्यं । जगदीशी निष्ठस्य संयोगसामानाधिकरण्यस्यावच्छेदकत्वाभावमेव गुणादौ, संयोगानधिकरणीभूत गुणवृत्तित्वमेव वा संयोगाभावादाववगाहत इत्यर्थः, तथा चातिव्याप्तिस्तदवस्थैवेति भावः । वक्ष्यति, = मूलकारः । तच्च = तदपि । *हेत्वधिकरण इति । - तेन कपिसंयोगाभावस्य प्रतियोगिवैयधिकरण्यावच्छेद की भूतगुणाद्यवच्छिन्नत्वेऽपि 'कपिसंयोग्येतत्त्वा' दित्यादौ नाव्याप्तिरिति भावः । ननु त्वधिकरणे प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नत्वं, प्रतियोगिसामानाधिकरण्यानवच्छेद की भूतहेत्वधिकरणवृत्तित्वमिति यावत्, विवृतिः १२६ - गुणादाविति । श्रवगाहत इत्यनेनान्वयः । एवञ्च तादृशप्रतीतिर्न संयोगाभावे संयोगवट्टत्तित्वा भावमवगाहत इत्येवमेवकारेण सूचितं, ननु संयोगवद्वत्तित्वार्थक संयोगसामानाधिकरण्यस्य व्याप्यवृत्तितयाऽवच्छेदकस्वासम्भवात् तदवच्छेदकत्वाभावावगाहिन्या उक्तप्रतीतेर्भ्रमत्वापत्तिरत आहसंयोगानधिकरणीभूतेति । संयोगरूपप्रतियोग्यनधिकरणीभूतेत्यर्थः । गुणवृत्तित्वमेवेति । अत्राप्येवकारेण संयोगाभावे संयोगवद्वृत्तित्वाभावं नावगाहत इति सूचितं । तदवस्थैवेतोति । पूर्वोक्तरीत्या 'संयोगी सवा' दिव्यत्रातिव्याप्तिरस्त्येवेत्यर्थः । तेन = हेत्वधिकरणे 'प्रतियोगिवैयधिकरण्य' विशेषणदानेन, नाव्याप्तिरिति । हेत्वधिकरणे प्रतियोगिवैयधिकरण्य विशेषणानुपादाने 'कपिसंयोग्येतत्त्वादित्यत्र कपि संयोगाधिकरणटत्तित्वाभावावच्छेदकगुणाद्यवच्छिन्नत्वस्य साध्याभावे कपिसंयोगाभावे सत्त्वात् तस्य च हेतुमति वृत्तित्वाद्भवत्यव्याप्तिरतः 'प्रतियोगिवैयधिकरण्यं' हेत्वधिकरणस्यैव विशेषणं, त्वधिकरणत्वाभावेन नाव्याप्तिरिति भावः । गुणस्य प्रतियोग्यनधिकरणत्वार्थक 'प्रतियोगिवैयधिकरण्यस्य हेत्वधिकरणविशेषणत्वे बीजमाह - नन्विति । 'हेत्वधिकरण' इत्यादेः समुदितस्य परिष्कृतमर्थमाहप्रतियोगीति । स्वप्रतियोगिनो यदधिकरणं तद्वत्तित्वस्यानवच्छेदकत्वमेव हेत्वधिकरणे ‘प्रतियोगिवैयधिकरण्य' मवसेयं, तादृशहेत्वधिकरणवृत्तित्वमभावे विशेषणमित्य
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy