SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १२२ सिद्धान्त-लक्षण - जागदीशो । जगदीशी 'विशिष्टनिरूपिताधेयत्वमप्यतिरिक्तमित्याशयेनेदम् । यद्वा- —' तद्विशिष्टस्ये' त्यस्य 'हेत्वधिकरणे' ऽन्वयः, तत्र च षष्ठ्यर्थो - ऽधिकरणत्वं, - तेन तद्विशिष्टस्याधिकरणं यद्धेत्वधिकरणं तद्वृत्तित्वमभावे वाच्यमित्यर्थः । विष्टति: भावाद्भिद्यते, विशिष्टस्य शुद्धानतिरेकात् एवञ्च कपिसंयोगाभावे वृक्षवृत्तित्वसत्त्वे कपिसंयोगाधिकरणावृत्तित्वविशिष्टकपिसंयोगाभावेऽपि वृक्षवृत्तित्वमक्षतमेवेति 'तद्विशिष्टे' त्यादिनिवेशेऽपि नाव्याप्तिवारणं सम्भवतीत्यत आह-1 - विशिष्टनिरूपितेति । विशिष्टस्य शुद्धानतिरिक्तत्वेऽपि विशिष्टनिष्ठाधेयत्वमतिरिक्तमेव, तथा च कपिसंयोगाभावनिष्ठ वृक्षवृत्तितातः - कपि संयोगाधिकरणावृत्तित्वविशिष्टकपिसंयोगाभावनिष्ठवृत्तिताया- भिन्नत्वात् कपिसंयोगाभावे वृक्षटत्तित्वसत्त्वेऽपि न तादृशविशिष्टे वृक्षवृत्तित्वमिति कपिसंयोगाभावस्य लक्षणाघटकतया नाडव्याप्तिरित्यभिप्रायः । विशिष्टनिष्ठाधेयतायाः शुद्धनिष्ठाधेयतातो भिन्नतायां विवादेऽपि विशिष्टाधिकरणतायाः शुद्धाधिकरणतातो वैलक्षण्ये विवादाभावात् 'तद्विशिष्टे'त्यादिग्रन्थं प्रकारान्तरेण व्याख्यातुं कल्पान्तरमाह - यद्वेति । तद्विशिष्टस्य = प्रतियोग्यधिकरणवृत्तित्वाभावविशिष्टस्य । समुदितार्थमाह - तेनेति । स्वप्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नस्य यदधिकरणं तन्निरूपितवृत्तित्वाभावविशिष्टस्य यस्याभावस्या - धिकरणं हेत्वधिकरणं भवति - हेत्वधिकरण वृत्तितादृशाभावप्रतियोगितानवच्छेदकत्वमेव साध्यतावच्छेदके विवक्षणीयमिति निरुक्तग्रन्थतात्पर्यम् । एवं सति कपिसंयोग्येतद्वृक्षत्वादित्यत्र नाव्याप्तिगन्धोऽपि कपिसंयोगाभावप्रतियोगिकपिसंयोगाधिकरणवृत्तित्वाभावविशिष्टस्य गुणटत्तिकपिसंयोगाभावस्याधिकरणताया वृक्षेऽसत्त्वेन स्वपदेन कपिसंयोगाभावस्य धर्त्तुमशक्यत्वात् । घटाभावप्रतियोगिघटाधिकरणावृत्तित्वविशिष्टघटाभावस्याधिकरणताया वृक्षवृत्तित्वेन स्वपदेन घटाभावमादाय तत्प्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके कपिसंयोगत्वे सत्त्वादिति ध्येयम् । पुस्तकपाठः । 9 १. 'विशिष्टनिष्ठाधेयत्व' मिति कलिकातामुद्रितपुस्तकपाठः । २. 'प्रतियोगिसामानाधिकरण्याभावविशिष्टस्ये 'ति काशी - कलिकाता मुद्रित
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy