SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विवृति- दीपिकालङ्कृता । दीधितिः अथ 'ज्ञानवान् द्रव्यत्वात्', जगदीशी १११ 'विशेषगुणवान् - पट अन्यथा पट [आदि ] भेदस्वरूपस्य घटभेदत्वात्यन्ताभावस्य, त्वात्यन्ताभावस्य वा पटनिष्ठप्रतियोगिताया एव तादात्म्य सम्बन्धात्रच्छिन्नत्वादव्याप्तिविरहादिति ध्येयम् ||१०|| एव ननु विषयताया वृत्त्यनियामकत्वमते - 'ज्ञानाभावस्य गगनादौ सहजत प्रतियोगिव्यधिकरणत्वान्नातिव्याप्तिरत आह - विशेषगुण इति । — अत्र व्यभिचारनिरूपकः कालो, दिक् च, तत्र काले कालिकेन, दिशि च दैशिकेन सम्बन्धेन विशेषगुणस्य सत्त्वात्तदभावो न प्रति विटति: अभावाधिकरणकाभावः, 'अभावाधिकरणका भावस्य धर्मिभेद-धर्मात्यन्ताभावयोवैक्यमिति मताभ्युपगमे निरुक्ताव्याप्तिर्न घटत इत्याह- अन्यथेति । पटादिभेदरूपस्य = पटादिभेदाधिकरणकस्य । ध्येयमिति । चिन्ता बीजन्तु, संसर्गाभावत्वप्रवेशेऽपि निरुक्तमतमवलम्ब्याव्याप्तिवारणसम्भवेऽव्याप्तिदानमसङ्गतमिति ध्येयम् ॥ १० ॥ 'विशेषगुणवानित्यादिसाध्यान्तरानुसरणत्रीजमाह - नन्विति । विषयताया इति । तथा च प्रतियोगितावच्छेदकावच्छिन्नाधिकरणावृत्ति स्वघटकप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वं यदि सम्बन्धसामान्येऽपि निविष्टं स्यात्, तथापि 'ज्ञानवान् द्रव्यत्वा' दित्यत्र नातिव्याप्तिः हेतुमति गगने वर्त्तमानस्य ज्ञानसामान्याभावस्य समवाय- कालिकादिसम्बन्धेन तत्तत्प्रतियोगितावच्छेद की भूतज्ञानत्वावच्छिन्नाधिकरणे आत्मादाववर्त्तमानत्वात् विषयतया तादृशज्ञानत्वावच्छिनाधिकरणं चाप्रसिद्धं, विषयतासम्बन्धस्य वृत्त्यनियामकत्वादिति भावः । 3 अत्रेति । 'विशेषगुणवान् मनोऽन्यद्रव्यत्वा' दित्यत्रेत्यर्थः । व्यभिचारेति । व्यभिचारः = हेतौ साध्याभाववद्वृत्तित्वं तन्निरूपकः = हेतुमत्साध्याभावाधिकरणं । काल इति । तथा च काले दिशि च वर्त्तमानस्य विशेषगुणाभावस्य, प्रतियोगितावच्छेदकीभूतविशेषगुणत्वावच्छिन्नस्य कालिकसम्बन्धेनाधिकरणे काले, दैशिकविशेषणतयाऽधिकरणीभूतायां दिशि च १ 'ज्ञानाभावो गगनादौ सहजत एव प्रतियोगिव्यधिकरण इति नातिव्याप्तिरिति प्राचीन लिखित पुस्तकपाठः ।
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy