________________
अष्टावक्र उवाच।
सानुरागां स्त्रियं दृष्ट्वां मृत्यु वा समुपस्थितम्। अविह्वलमना स्वस्थो मुक्त एव महाशयः।।१७०।। सुखे दुःखे नरे नार्या संपत्सु च विपत्सु च। विशेषो नैव धीरस्य सर्वत्र समदर्शिनः।।१७१।। न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता। नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे।।१७२।। न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः। असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते।।१७३।। समाधानासमाधानहिताहितविकल्पनाः। शून्यचित्तो न जानाति कैवल्यमिव संस्थितः।।१७४।। निर्ममो निरहंकारो न किंचिदिति निश्चितः। अंतर्गलित सर्वाशः कुर्वन्नपि करोति न।।१७५।। मनः प्रकाशसंमोहस्वप्नजाड्यविवर्जितः। दशां कामपि संप्राप्तो भवेद्गलितमानसः।।१७६।।